Loading...
ऋग्वेद मण्डल - 10 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 24/ मन्त्र 6
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - अश्विनौ छन्दः - अनुष्टुप् स्वरः - गान्धारः

    मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नम् । ता नो॑ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ॥

    स्वर सहित पद पाठ

    मधु॑ऽमत् । मे॒ । प॒रा॒ऽअय॑णम् । मधु॑ऽमत् । पुनः॑ । आऽअय॑नम् । ता । नः॒ । दे॒वा॒ । दे॒वत॑या । यु॒वम् । मधु॑ऽमतः । कृ॒त॒म् ॥


    स्वर रहित मन्त्र

    मधुमन्मे परायणं मधुमत्पुनरायनम् । ता नो देवा देवतया युवं मधुमतस्कृतम् ॥

    स्वर रहित पद पाठ

    मधुऽमत् । मे । पराऽअयणम् । मधुऽमत् । पुनः । आऽअयनम् । ता । नः । देवा । देवतया । युवम् । मधुऽमतः । कृतम् ॥ १०.२४.६

    ऋग्वेद - मण्डल » 10; सूक्त » 24; मन्त्र » 6
    अष्टक » 7; अध्याय » 7; वर्ग » 10; मन्त्र » 6

    पदार्थः -
    (मे परायणं मधुमत्) हे सभासेनेशौ ! युवाभ्यां चालिते रक्षिते राष्ट्रे मम राष्ट्रपतेः परायणं बहिर्गमनं मधुमद् भवतु यत्र गच्छामि तत्रस्थजनेभ्यः कल्याणमयं बहिगर्मनं भवतु (पुनः-आयनम्-मधुमत्) तत्र कार्यं विधाय स्वराष्ट्रे पुनरागमनं मधुमद् भवतु स्वप्रजाभ्यः कल्याणमयं भवतु (ता देवा युवम् देवतया नः-मधुमतः कृतम्) तौ विद्वांसौ युवां स्वविद्वत्तया-योग्यतयाऽस्मान् मधुयुक्तान्-आनन्दयुक्तान् कुरुतम् ॥६॥

    इस भाष्य को एडिट करें
    Top