Loading...
ऋग्वेद मण्डल - 10 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 25/ मन्त्र 2
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - सोमः छन्दः - आस्तारपङ्क्ति स्वरः - पञ्चमः

    हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु । अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ॥

    स्वर सहित पद पाठ

    हृ॒दि॒ऽस्पृशः॑ । ते॒ । आ॒स॒ते॒ । विश्वे॑षु । सो॒म॒ । धाम॑ऽसु । अध॑ । कामाः॑ । इ॒मे । मम॑ । वि । वः॒ । मदे॑ । वि । ति॒ष्ठ॒न्ते॒ । व॒सु॒ऽयवः॑ । विव॑क्षसे ॥


    स्वर रहित मन्त्र

    हृदिस्पृशस्त आसते विश्वेषु सोम धामसु । अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥

    स्वर रहित पद पाठ

    हृदिऽस्पृशः । ते । आसते । विश्वेषु । सोम । धामऽसु । अध । कामाः । इमे । मम । वि । वः । मदे । वि । तिष्ठन्ते । वसुऽयवः । विवक्षसे ॥ १०.२५.२

    ऋग्वेद - मण्डल » 10; सूक्त » 25; मन्त्र » 2
    अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 2

    पदार्थः -
    (सोम) हे शान्तस्वरूप परमात्मन् ! (विश्वेषु धामसु) समस्तेषु स्थानेषु सर्वत्रेत्यर्थः (ते) तुभ्यं त्वां प्राप्तुम् (हृदिस्पृशः) हृदयं स्पृशन्तः-हृदयगताः (इमे मम कामाः) एते ममाभिलाषाः (आसते) वर्त्तन्ते। (अध) अतः (वः-मदे वि वसुयवः-वितिष्ठन्ते) तव हर्षप्रदस्वरूपे विशिष्टभावेन वासमिच्छन्तो जना उपासका विराजन्ते (विवक्षसे) यतस्त्वं महानसि ॥२॥

    इस भाष्य को एडिट करें
    Top