Loading...
ऋग्वेद मण्डल - 10 के सूक्त 32 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 32/ मन्त्र 2
    ऋषिः - कवष ऐलूषः देवता - विश्वेदेवा: छन्दः - विराड्जगती स्वरः - निषादः

    वी॑न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत । ये त्वा॒ वह॑न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वन्तु वग्व॒नाँ अ॑रा॒धस॑: ॥

    स्वर सहित पद पाठ

    वि । इ॒न्द्र॒ । या॒सि॒ । दि॒व्यानि॑ । रो॒च॒ना । वि । पार्थि॑वानि । रज॑सा । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । वह॑न्ति । मुहुः॑ । अ॒ध्व॒रान् । उप॑ । ते । सु । व॒न्व॒न्तु॒ । व॒ग्व॒नान् । अ॒रा॒धसः॑ ॥


    स्वर रहित मन्त्र

    वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत । ये त्वा वहन्ति मुहुरध्वराँ उप ते सु वन्वन्तु वग्वनाँ अराधस: ॥

    स्वर रहित पद पाठ

    वि । इन्द्र । यासि । दिव्यानि । रोचना । वि । पार्थिवानि । रजसा । पुरुऽस्तुत । ये । त्वा । वहन्ति । मुहुः । अध्वरान् । उप । ते । सु । वन्वन्तु । वग्वनान् । अराधसः ॥ १०.३२.२

    ऋग्वेद - मण्डल » 10; सूक्त » 32; मन्त्र » 2
    अष्टक » 7; अध्याय » 7; वर्ग » 29; मन्त्र » 2

    पदार्थः -
    (पुरुष्टुत-इन्द्र) हे बहुस्तोतव्य परमात्मन् ! (दिव्यानि रोचना वि यासि) त्वं दिवि भवानि प्रकाशमयानि नक्षत्राणि व्याप्नोषि (पार्थिवानि रजसा वि) पृथिव्यां भवानि रजांसि रजनात्मकानि वस्तूनि च व्याप्नोषि ‘रजसा’ “सुपां सुलुक् पूर्वसवर्णाच्छेया ………” [अष्टा०७।१।३९] इत्याकारादेशः। (ये मुहुः-अध्वरान् त्वा वहन्ति) ये आत्मयाजिनस्त्वां लक्षयित्वा-अध्यात्मयज्ञान्-अनुतिष्ठन्ति (ते) ते जनाः (अराधसः) धनरहिताः अपि (वग्वनान्) स्तुतिवाण्या सेवनीयान् सुखविशेषान् (सु-उप वन्वन्तु) सुगमतया सम्भजन्ताम्-इति देवयानमार्गस्य वर्णनम् ॥२॥

    इस भाष्य को एडिट करें
    Top