Loading...
ऋग्वेद मण्डल - 10 के सूक्त 33 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 33/ मन्त्र 1
    ऋषिः - कवष ऐलूषः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण । विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दु॒:शासु॒रागा॒दिति॒ घोष॑ आसीत् ॥

    स्वर सहित पद पाठ

    प्र । मा॒ । यु॒यु॒ज्रे॒ । प्र॒ऽयुजः॑ । जना॑नाम् । वहा॑मि । स्म॒ । पू॒षण॑म् । अन्त॑रेण । विश्वे॑ । दे॒वासः॑ । अध॑ । माम् । अ॒र॒क्ष॒न् । दुः॒ऽशासुः॑ । आ । अ॒गा॒त् । इति॑ । घोषः॑ । आ॒सी॒त् ॥


    स्वर रहित मन्त्र

    प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण । विश्वे देवासो अध मामरक्षन्दु:शासुरागादिति घोष आसीत् ॥

    स्वर रहित पद पाठ

    प्र । मा । युयुज्रे । प्रऽयुजः । जनानाम् । वहामि । स्म । पूषणम् । अन्तरेण । विश्वे । देवासः । अध । माम् । अरक्षन् । दुःऽशासुः । आ । अगात् । इति । घोषः । आसीत् ॥ १०.३३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 33; मन्त्र » 1
    अष्टक » 7; अध्याय » 8; वर्ग » 1; मन्त्र » 1

    पदार्थः -
    (जनानां प्रयुजः) ज्ञानं प्रदाय मनुष्याणां प्रेरयितारो विद्वांसो गुरवः (मा प्रयुयुज्रे) मां ज्ञानदानेन प्रेरितवन्तः प्रेरयन्ति वा, अत एव (अन्तरेण पूषणं वहामि स्म) अन्तःस्थेन-अन्तःकरणेनाहं पोषयितारं परमात्मानं धारयामि-अनुभवामि (अध) अनन्तरं तस्मादेव (विश्वे देवासः-माम् अरक्षन्) प्राणाः “प्राणा वै विश्वेदेवाः” [तै०५।२।२।१] मां रक्षन्ति (दुःशासुः-आ-अगात्-इति घोषः-आसीत्) दुःखेन यः शसति हिनस्ति स मृत्युः कठिनरोगो वा “शसु हिंसायाम्” [भ्वादि०] ततः-उण् बाहुलकात् स मारको मृत्युः-आगमिष्यति-इति जनघोषोऽस्ति हि ॥१॥

    इस भाष्य को एडिट करें
    Top