Loading...
ऋग्वेद मण्डल - 10 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 42/ मन्त्र 1
    ऋषिः - कृष्णः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै । वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरित॒: सोम॒ इन्द्र॑म् ॥

    स्वर सहित पद पाठ

    अस्ता॑ऽइव । सु । प्र॒ऽत॒रम् । लाय॑म् । अस्य॑न् । भूष॑न्ऽइव । प्र । भ॒र॒ । स्तोम॑म् । अ॒स्मै॒ । वा॒चा । वि॒प्राः॒ । त॒र॒त॒ । वाच॑म् । अ॒र्यः । नि । र॒म॒य॒ । ज॒रि॒त॒रिति॑ । सोमे॑ । इन्द्र॑म् ॥


    स्वर रहित मन्त्र

    अस्तेव सु प्रतरं लायमस्यन्भूषन्निव प्र भरा स्तोममस्मै । वाचा विप्रास्तरत वाचमर्यो नि रामय जरित: सोम इन्द्रम् ॥

    स्वर रहित पद पाठ

    अस्ताऽइव । सु । प्रऽतरम् । लायम् । अस्यन् । भूषन्ऽइव । प्र । भर । स्तोमम् । अस्मै । वाचा । विप्राः । तरत । वाचम् । अर्यः । नि । रमय । जरितरिति । सोमे । इन्द्रम् ॥ १०.४२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 42; मन्त्र » 1
    अष्टक » 7; अध्याय » 8; वर्ग » 22; मन्त्र » 1

    पदार्थः -
    (जरितः) हे स्तुतिकर्त्तः ! उपासक ! त्वम् (अस्ता-इव)  बाणप्रक्षेप्ता यथा (लायं सु-अस्यन्) श्लेषयोग्यं बाणम् “लीङ् श्लेषणे” [दिवा०] ‘ततो घञ्कर्मणि’ सुष्ठु प्रक्षिपन् वर्तसे तथा (प्रतरम्) प्रकृष्टतरं बाणमात्मानं परमात्मनि क्षिपन् वर्तस्व ‘प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्” [मुण्ड० २।२।४] (अस्मै स्तोमं भूषन् इव प्रभर) अस्मै इन्द्राय परमात्मने स्तुतिसमूहं समर्पय यथा कमपि प्रसादयितुं भूषयति तद्वत् भूषयन् (विप्राः) हे विद्वांसः ! यूयम् (अर्यः-वाचम्) अरेः शत्रोः ‘छान्दसं रूपम्’ “अर्यः शत्रवः” [ऋ० ३।३४।१८ दयानन्दः] वाचं वज्रं वा “वज्र एव वाक्” [ऐ० २।२१]  (वाचा तरत स्वकीयेनोपदेशरूपेण वाचा वज्रेण वा शमयत (सोमे-इन्द्रं निरमय) स्वोपासनारसे परमात्मानं निरमय साक्षात् कुरु ॥१॥

    इस भाष्य को एडिट करें
    Top