ऋग्वेद - मण्डल 10/ सूक्त 47/ मन्त्र 1
ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
स्वर सहित पद पाठज॒गृ॒भ्म । ते॒ । दक्षि॑णम् । इ॒न्द्र॒ । हस्त॑म् । व॒सु॒ऽयवः॑ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् । वि॒द्म । हि । त्वा॒ । गोऽप॑तिम् । शू॒र॒ । गोना॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥
स्वर रहित मन्त्र
जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दा: ॥
स्वर रहित पद पाठजगृभ्म । ते । दक्षिणम् । इन्द्र । हस्तम् । वसुऽयवः । वसुऽपते । वसूनाम् । विद्म । हि । त्वा । गोऽपतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥ १०.४७.१
ऋग्वेद - मण्डल » 10; सूक्त » 47; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 3; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 3; मन्त्र » 1
विषयः - सूक्तेऽत्र ‘इन्द्र’शब्देन परमात्मा कथ्यते स च जगतो मोक्षस्य स्वामी सन् यथायोग्यं भोगप्रदाता योगसाधकेभ्यो मोक्षस्य दाता चेत्येवमादयो विषया वर्तन्ते।
पदार्थः -
(वसूनां वसुपते शूर-इन्द्र) हे धनानां धनस्वामिन् सर्वत्रगतिमन् व्यापकपरमात्मन् ! “शूरः शवतेर्गतिकर्मणः” [निरु० ३।१३] (वसूयवः) वयं धनकामाः (ते दक्षिणं हस्तं जगृभ्म) तव दश्यते दीयते येन तं दानसाधनन् “दक्षिणः……दशतेर्वा स्याद्दानकर्मणः” [निरु० १।७] हस्तमिवालम्बनमाश्रयं गृह्वीमः (त्वा गोनां गोपतिं विद्म हि) गवां सुखस्य गमयितॄणां पदार्थानां तथाभूतानाञ्च स्वामिनं त्वां जानीम मन्यामहे, अतः (अस्मभ्यं चित्रं वृषणं रयिं दाः) अस्मदर्थं चायनीयं दर्शनीयं स्वरूपभूतं सुखवर्षकं धनमात्मपोषं देहि ॥१॥