ऋग्वेद - मण्डल 10/ सूक्त 50/ मन्त्र 1
ऋषिः - इन्द्रो वैकुण्ठः
देवता - इन्द्रो वैकुण्ठः
छन्दः - निचृज्जगती
स्वरः - निषादः
प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ । इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यत॑: ॥
स्वर सहित पद पाठप्र । वः॒ । म॒हे । मन्द॑मानाय । अन्ध॑सः । अर्च॑ । वि॒श्वान॑राय । वि॒श्व॒ऽभुवे॑ । इन्द्र॑स्य । यस्य॑ । सुऽम॑खम् । सहः॑ । महि॑ । श्रवः॑ । नृ॒म्णम् । च॒ । रोद॑सी॒ इति॑ । स॒प॒र्यतः॑ ॥
स्वर रहित मन्त्र
प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे । इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यत: ॥
स्वर रहित पद पाठप्र । वः । महे । मन्दमानाय । अन्धसः । अर्च । विश्वानराय । विश्वऽभुवे । इन्द्रस्य । यस्य । सुऽमखम् । सहः । महि । श्रवः । नृम्णम् । च । रोदसी इति । सपर्यतः ॥ १०.५०.१
ऋग्वेद - मण्डल » 10; सूक्त » 50; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 1
विषयः - अत्र सूक्ते ‘इन्द्र’शब्देन परमात्मा वर्ण्यते, स चोपासकानां विशिष्टहितकरः, ज्ञानदाता, रक्षको, मोक्षप्रदाता, सर्वयोजनासु स्तुत्यः सर्वैरित्येवमादयो विषया वर्ण्यन्ते ।
पदार्थः -
(वः) हे उपासका ! यूयम् ‘विभक्तिव्यत्ययः’ (अन्धसः-मन्दमानाय) अन्धसा ‘विभक्तिव्यत्ययः’ आध्यानीयेन समन्तध्यानेन-उपासनेन हृष्यते मोदमानाय (विश्वानराय) विश्वस्य नेत्रे (विश्वाभुवे) विश्वस्मिन् भवित्रे व्यापकाय (महे-इन्द्रस्य) महते-इन्द्राय ‘विभक्तिव्यत्ययः’ ऐश्वर्यवते परमात्मने (प्र-अर्च) प्रकृष्टं स्तुवीध्वम् (यस्य) यस्य परमात्मनः (सुमखं सहः-महिश्रवः-नृम्णं च) सुमहत् “सुमखं सुमहत्” [निरु० ११।९] बलं महच्च श्रवणीयं यशः नृन्नतं चाध्यात्मसुखम् (रोदसी सपर्यतः) द्यावापृथिवी-तत्रस्थौ ज्ञानकर्मशीलौ नरनार्यौ प्रशंसतः-मन्येताम् ॥१॥