ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 1
यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ऽयमागा॑द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् । स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑या॒न्नि हि षत्स॒दन्त॑र॒: पूर्वो॑ अ॒स्मत् ॥
स्वर सहित पद पाठयम् । ऐच्छा॑म । मन॑सा । सः । अ॒यम् । आ । अ॒गा॒त् । य॒ज्ञस्य॑ । वि॒द्वान् । परु॑षः । चि॒कि॒त्वान् । सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । नि । हि । स॒त्स॒त् । अन्त॑रः । पूर्वः॑ । अ॒स्मत् ॥
स्वर रहित मन्त्र
यमैच्छाम मनसा सो३ऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् । स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तर: पूर्वो अस्मत् ॥
स्वर रहित पद पाठयम् । ऐच्छाम । मनसा । सः । अयम् । आ । अगात् । यज्ञस्य । विद्वान् । परुषः । चिकित्वान् । सः । नः । यक्षत् । देवऽताता । यजीयान् । नि । हि । सत्सत् । अन्तरः । पूर्वः । अस्मत् ॥ १०.५३.१
ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 1
विषयः - अस्मिन् सूक्ते ‘सौचीकोऽग्निः’शब्देन देहाभिमान्यात्मा गृह्यते। यः स्वयमात्मानमनुभवति तस्य जन्मावसरे प्रसन्नता, शिक्षणव्यवस्था, संयमेन संसारसुखलाभो मोक्षलाभश्च कार्यः। श्रेष्ठपुत्रशिष्याणा-मुत्पत्त्यादयो विषयाः सन्ति।
पदार्थः -
(यं मनसा-ऐच्छाम) वयं मनोभावेन यमात्मानमिच्छामः स्म (सः-अयम्-आगात्) सोऽयमागतः-आयाति (यज्ञस्य विद्वान्) यः खलु शरीरयज्ञस्यानुभविता जानामि खल्वत्र स्थित एवंवित् (परुषः-चिकित्वान्) अस्य सर्वाणि परूंषि पर्वाणि-अङ्गप्रत्यङ्गानि च चेतनयुक्तानि करोति चेतयति (सः-यजीयान् नः-देवताता यक्षत्) सोऽतिशयेन सङ्गतिकर्त्ताऽस्माकं देवानां तातौ शरीरयज्ञे “देवताता यज्ञनाम” [निघ० ३।१७] विद्वत्सङ्गतौ वा सङ्गच्छते, अतः (अस्मत् पूर्वः-हि) अस्मत्तः पूर्व एव (अन्तः-निषत्सत्) अन्तः शरीरान्तरे सभामध्ये वा निषीदति ॥१॥