ऋग्वेद - मण्डल 10/ सूक्त 55/ मन्त्र 1
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै । उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातु॑: पु॒त्रान्म॑घवन्तित्विषा॒णः ॥
स्वर सहित पद पाठदू॒रे । तत् । नाम॑ । गुह्य॑म् । प॒रा॒चैः । यत् । त्वा॒ । भी॒ते इति॑ । अह्व॑येताम् । व॒यः॒ऽधै । उत् । अ॒स्त॒भ्नाः॒ । पृ॒थि॒वीम् । द्याम् । अ॒भीके॑ । भ्रातुः॑ । पु॒त्रान् । म॒घ॒ऽव॒न् । ति॒त्वि॒षा॒णः ॥
स्वर रहित मन्त्र
दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै । उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातु: पुत्रान्मघवन्तित्विषाणः ॥
स्वर रहित पद पाठदूरे । तत् । नाम । गुह्यम् । पराचैः । यत् । त्वा । भीते इति । अह्वयेताम् । वयःऽधै । उत् । अस्तभ्नाः । पृथिवीम् । द्याम् । अभीके । भ्रातुः । पुत्रान् । मघऽवन् । तित्विषाणः ॥ १०.५५.१
ऋग्वेद - मण्डल » 10; सूक्त » 55; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 16; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 16; मन्त्र » 1
विषयः - अत्र सूक्ते ‘इन्द्र’शब्देन परमात्मा गृह्यते, तद्द्वारा सृष्टेरारम्भे-ऋषिभ्यो वेदमन्त्रप्रदानं ज्योतिष्मति वस्तूनि ज्योतिः संस्थापनं मोक्षे मनुष्यमात्रस्याधिकार इत्येवमादयो विषयाः सन्ति।
पदार्थः -
(मघवन्) हे धनैश्वर्यवन् परमात्मन् ! (पराचैः-तत्-नाम गुह्यं दूरे) पराङ्मुखैर्नास्तिकैरुपासनारहितैस्तदुक्तं नाम गुह्यं गुप्तमपि तु दूरेऽस्ति (यत्-त्वा भीते-अह्वयेताम्) यदा खलु पूर्वोक्ते रोदसी द्यावापृथिव्यौ भयङ्कुर्वाणे, यद्वा ज्ञानप्रकाशवदज्ञानान्धकारवन्तौ राजप्रजाजनौ वा भयङ्कुर्वाणौ-आमन्त्रयेते (वयोधै) जीवनधारणाय (पृथिवीं द्याम्-अभीके) उभे-अपि द्यावापृथिव्यौ परस्परमभ्यक्ते सापेक्षे वर्तेते यद्वा ज्ञानप्रकावदज्ञानान्धकारवन्तौ राजप्रजाजनौ परस्परमभ्यक्तौ ‘अभीके-अभ्यक्ते’ [निघ० ३।२०] सापेक्षौ वर्तेते, (उत् अस्तभ्नाः) उत्तम्भयति रक्षति (भ्रातुः-पुत्रान्) भ्रातॄन् भरणीयान् ‘विभक्तिवचनव्यत्ययः’ पुत्रान्-पवित्रगुणस्वभावयुक्तान् ज्ञानप्रकाशवतो जनान् “पुत्रान् पवित्रगुणस्वभावान्” [यजु० ३७।२० दयानन्दः] (तित्विषाणः) गुणैः प्रकाशयन् बिभर्तीति शेषः ॥१॥