Loading...
ऋग्वेद मण्डल - 10 के सूक्त 59 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 59/ मन्त्र 2
    ऋषिः - बन्ध्वादयो गौपायनाः देवता - निर्ऋतिः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि । ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निॠ॑तिर्जिहीताम् ॥

    स्वर सहित पद पाठ

    साम॑न् । नु । रा॒ये । नि॒धि॒ऽमत् । नु । अन्न॑म् । करा॑महे । सु । पु॒रु॒ध । श्रवां॑सि । ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । म॒म॒त्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥


    स्वर रहित मन्त्र

    सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि । ता नो विश्वानि जरिता ममत्तु परातरं सु निॠतिर्जिहीताम् ॥

    स्वर रहित पद पाठ

    सामन् । नु । राये । निधिऽमत् । नु । अन्नम् । करामहे । सु । पुरुध । श्रवांसि । ता । नः । विश्वानि । जरिता । ममत्तु । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥ १०.५९.२

    ऋग्वेद - मण्डल » 10; सूक्त » 59; मन्त्र » 2
    अष्टक » 8; अध्याय » 1; वर्ग » 22; मन्त्र » 2

    पदार्थः -
    (राये) जीवनैश्वर्याय (सामन्-नु) सममिते भूभागे “साम समम्यने” [निरु० ७।१२] शीघ्रम् (निधिमत्-नु-अन्नं करामहे) धननिधिमदिवान्नमदनीयं भोज्यं सम्पादयामः (पुरुध) पुरुधा-बहुप्रकारेण (श्रवांसि-सु) विविधानि खल्वन्नानि खाद्यानि सुसम्पादयामः (ता विश्वानि नः-जरिता ममत्तु) तानि विश्वानि प्राप्येति शेषः, अस्माकं जरिता जीर्णो वृद्धोऽपि तृप्यतु “मदतेर्वा तृप्तिकर्मणः” [निरु० ९।५] (परातरं निर्ऋतिः सु जिहीताम्) कृच्छ्रापत्तिः सुगमतया बहुदूरं गच्छतु ॥२॥

    इस भाष्य को एडिट करें
    Top