ऋग्वेद - मण्डल 10/ सूक्त 60/ मन्त्र 1
ऋषिः - बन्ध्वादयो गौपायनाः
देवता - असमाती राजा
छन्दः - गायत्री
स्वरः - षड्जः
आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतम् । अग॑न्म॒ बिभ्र॑तो॒ नम॑: ॥
स्वर सहित पद पाठआ । जन॑म् । त्वे॒षऽस॑न्दृशम् । माही॑नानाम् । उप॑ऽस्तुतम् । अग॑न्म । बिभ्र॑तः । नमः॑ ॥
स्वर रहित मन्त्र
आ जनं त्वेषसंदृशं माहीनानामुपस्तुतम् । अगन्म बिभ्रतो नम: ॥
स्वर रहित पद पाठआ । जनम् । त्वेषऽसन्दृशम् । माहीनानाम् । उपऽस्तुतम् । अगन्म । बिभ्रतः । नमः ॥ १०.६०.१
ऋग्वेद - मण्डल » 10; सूक्त » 60; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 24; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 24; मन्त्र » 1
विषयः - अत्र सूक्ते राज्ञा परमात्मोपासितव्यः, योग्यसेनाध्यक्षस्य मन्त्रिणां च नियुक्तिस्तेभ्योऽधिकारप्रदानं मनोदोषनिवारका विशेषतो चिकित्सका संरक्ष्या इति वर्णितम्।
पदार्थः -
(माहीनानाम्) महतां महानुभावानां मध्ये “माहिनः महन्नाम” [निघ० ३।३] (त्वेषसन्दृशम्) साक्षाज्ज्ञानिनम्-“न्यायप्रकाशं सम्पश्यति दर्शयति वा” [ऋ० ६।२२।९ दयानन्दः] (उपस्तुतं जनम्) प्रशस्तं जनम् (नमः बिभ्रतः-अगन्म) वयमुपहारं धारयन्तो गच्छेम ॥१॥