ऋग्वेद - मण्डल 10/ सूक्त 72/ मन्त्र 2
ऋषिः - बृहस्पतिर्बृहस्पतिर्वा लौक्य अदितिर्वा दाक्षायणी
देवता - देवाः
छन्दः - पादनिचृदनुष्टुप्
स्वरः - गान्धारः
ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् । दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑त॒: सद॑जायत ॥
स्वर सहित पद पाठब्रह्म॑णः । पतिः॑ । ए॒ता । सम् । क॒र्मारः॑ऽइव । अ॒ध॒म॒त् । दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ ॥
स्वर रहित मन्त्र
ब्रह्मणस्पतिरेता सं कर्मार इवाधमत् । देवानां पूर्व्ये युगेऽसत: सदजायत ॥
स्वर रहित पद पाठब्रह्मणः । पतिः । एता । सम् । कर्मारःऽइव । अधमत् । देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत ॥ १०.७२.२
ऋग्वेद - मण्डल » 10; सूक्त » 72; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 1; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 1; मन्त्र » 2
पदार्थः -
(ब्रह्मणः-पतिः) ब्रह्माण्डस्य पालकः पतिश्च (कर्मारः-इव-एता समधमत्) शिल्पी लोहकार इव एतान् ‘आकारादेशः’ प्रादुर्भावरूपानङ्कुरान् सन्तापयति (देवानां पूर्व्ये युगे) दिव्यगुणानामादित्यादीनां पूर्वभवे काले ततः (असतः-सत्-अजायत) अव्यक्तादुपादानाद् व्यक्तं सदात्मकं विकृतरूपं जायते ॥२॥