Loading...
ऋग्वेद मण्डल - 10 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 73/ मन्त्र 1
    ऋषिः - गौरिवीतिः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥

    स्वर सहित पद पाठ

    जनि॑ष्ठाः । उ॒ग्रः । सह॑से । तु॒राय॑ । म॒न्द्रः । ओजि॑ष्ठः । ब॒हु॒लऽअ॑भि॑मानः । अव॑र्धन् । इन्द्र॑म् । म॒रुतः॑ । चि॒त् । अत्र॑ । मा॒ता । यत् । वी॒रम् । द॒धन॑त् । धनि॑ष्ठा ॥


    स्वर रहित मन्त्र

    जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ॥

    स्वर रहित पद पाठ

    जनिष्ठाः । उग्रः । सहसे । तुराय । मन्द्रः । ओजिष्ठः । बहुलऽअभिमानः । अवर्धन् । इन्द्रम् । मरुतः । चित् । अत्र । माता । यत् । वीरम् । दधनत् । धनिष्ठा ॥ १०.७३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 73; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 3; मन्त्र » 1

    पदार्थः -
    (उग्रः) उद्गूर्णबलः प्रतापी (मन्द्रः) हर्षप्रदः-आनन्ददाता (ओजिष्ठः) अतिशयेनौजस्वी बली (बहुलाभिमानः) बहुप्रकारेणात्मानमभिमन्यमानः-प्रतिष्ठावान् (सहसे तुराय) स्वसैन्यबलरक्षणाय तथा शत्रुबलस्य नाशाय (जनिष्ठाः) हे-इन्द्र राजन् ! त्वं जायसे (इन्द्रं मरुतः-चित्-अवर्धन्) त्वां राजानं सैनिकाः-अपि “असौ या सेना मरुतः परेषामस्मानैत्यभ्योजसा स्पर्धमाना। तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्।” [अथर्व० ३।२।६] महासेनाध्यक्षादयः “मरुतः सेनाध्यक्षादयः” [ऋ० १।३७।१२ दयानन्दः] वर्धयन्ति (अत्र माता यत्-वीरं दधनत्-धनिष्ठा) अत्र राष्ट्रनिमित्तं यतस्त्वां वीरं धारयति सा माता राष्ट्रभूमिर्वा साऽतिधन्या “धनिष्ठा अतिशयेन धनिनी” [यजु० ३।६४ दयानन्दः] ॥१॥

    इस भाष्य को एडिट करें
    Top