ऋग्वेद - मण्डल 10/ सूक्त 78/ मन्त्र 5
अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो॑ दिधि॒षवो॒ न र॒थ्य॑: सु॒दान॑वः । आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो॑ वि॒श्वरू॑पा॒ अङ्गि॑रसो॒ न साम॑भिः ॥
स्वर सहित पद पाठअश्वा॑सः । न । ये । ज्येष्ठा॑सः । आ॒शवः॑ । दि॒धि॒षवः॑ । न । र॒थ्यः॑ । सु॒ऽदान॑वः । आपः॑ । न । नि॒म्नैः । उ॒दऽभिः॑ । जि॒ग॒त्नवः॑ । वि॒श्वऽरू॑पाः । अङ्गि॑रसः । न । साम॑ऽभिः ॥
स्वर रहित मन्त्र
अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्य: सुदानवः । आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥
स्वर रहित पद पाठअश्वासः । न । ये । ज्येष्ठासः । आशवः । दिधिषवः । न । रथ्यः । सुऽदानवः । आपः । न । निम्नैः । उदऽभिः । जिगत्नवः । विश्वऽरूपाः । अङ्गिरसः । न । सामऽभिः ॥ १०.७८.५
ऋग्वेद - मण्डल » 10; सूक्त » 78; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 12; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 12; मन्त्र » 5
पदार्थः -
(ये-अश्वासः-न ज्येष्ठासः-आशवः) ये विद्वांसो विद्यायामाशु प्रवेशशीला ज्येष्ठा अश्वा इव सन्ति (दिधिषवः-रथ्यः-न सुदानवः) ध्यानवन्तः स्वशरीररथस्य स्वामिनः शोभनविद्यादातारः (आपः-न निम्नैः-उदभिः-जिगत्नवः) नद्य इव निम्नैर्जलैरिव ज्ञानप्रवाहका विद्वांसः सन्ति (विश्वरूपाः-अङ्गिरसः-न सामभिः) विश्वं ज्ञानं निरूपयितारः सर्वाङ्गशास्त्रज्ञानस्य प्रेरयितारः शान्तभावैरिव यथा भवितव्यं तथा ॥५॥