ऋग्वेद - मण्डल 10/ सूक्त 78/ मन्त्र 8
सु॒भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न॒स्मान्त्स्तो॒तॄन्म॑रुतो वावृधा॒नाः । अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ सन्ति॑ ॥
स्वर सहित पद पाठसु॒ऽभा॒गान् । नः॒ । दे॒वाः॒ । कृ॒णु॒त॒ । सु॒ऽरत्ना॑न् । अ॒स्मान् । स्तो॒तॄन् । म॒रु॒तः॒ । व॒वृ॒धा॒नाः । अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गा॒त॒ । स॒नात् । हि । वः॒ । र॒त्न॒ऽधेया॑नि । सन्ति॑ ॥
स्वर रहित मन्त्र
सुभागान्नो देवाः कृणुता सुरत्नानस्मान्त्स्तोतॄन्मरुतो वावृधानाः । अधि स्तोत्रस्य सख्यस्य गात सनाद्धि वो रत्नधेयानि सन्ति ॥
स्वर रहित पद पाठसुऽभागान् । नः । देवाः । कृणुत । सुऽरत्नान् । अस्मान् । स्तोतॄन् । मरुतः । ववृधानाः । अधि । स्तोत्रस्य । सख्यस्य । गात । सनात् । हि । वः । रत्नऽधेयानि । सन्ति ॥ १०.७८.८
ऋग्वेद - मण्डल » 10; सूक्त » 78; मन्त्र » 8
अष्टक » 8; अध्याय » 3; वर्ग » 13; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 13; मन्त्र » 3
पदार्थः -
(मरुतः-देवाः) हे जीवन्मुक्ता विद्वांसः यूयम् (नः) अस्मान् (सुभागान् कृणुत) स्वज्ञाने सुभागवन्तः कुरुत (अस्मान् स्तोतॄन् वावृधानाः-सुरत्नान्) अस्मान् परमात्मस्तुतिकर्तॄन् वर्धयमाना अध्यात्मरमणीयसुखवतः कुरुत (स्तोत्रस्य सख्यस्य-अधिगात) स्तुतियोग्यस्य परमात्मना सह सखित्वसम्पादकस्य साधनस्य गातमस्मान् गायत-उपदिशत (वः-रत्नधेयानि सनात्-हि सन्ति) युष्माकम् अस्मदर्थं रत्नानां धातव्यानि-अन्तः प्रवेष्टव्यानि स्थापनीयानि हि सन्ति ॥८॥