Loading...
ऋग्वेद मण्डल - 10 के सूक्त 87 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 87/ मन्त्र 25
    ऋषिः - पायुः देवता - अग्नी रक्षोहा छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    प्रत्य॑ग्ने॒ हर॑सा॒ हर॑: शृणी॒हि वि॒श्वत॒: प्रति॑ । या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥

    स्वर सहित पद पाठ

    प्रति॑ । अ॒ग्ने॒ । हर॑सा । हरः॑ । शृ॒णी॒हि । वि॒श्वतः॑ । प्रति॑ । या॒तु॒ऽधान॑स्य । र॒क्षसः॑ । बल॑म् । वि । रु॒ज॒ । वी॒र्य॑म् ॥


    स्वर रहित मन्त्र

    प्रत्यग्ने हरसा हर: शृणीहि विश्वत: प्रति । यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥

    स्वर रहित पद पाठ

    प्रति । अग्ने । हरसा । हरः । शृणीहि । विश्वतः । प्रति । यातुऽधानस्य । रक्षसः । बलम् । वि । रुज । वीर्यम् ॥ १०.८७.२५

    ऋग्वेद - मण्डल » 10; सूक्त » 87; मन्त्र » 25
    अष्टक » 8; अध्याय » 4; वर्ग » 9; मन्त्र » 5

    पदार्थः -
    (अग्ने) हे तेजस्विन् नायक ! (यातुधानस्य रक्षसः) यातनाधारकस्य राक्षसस्य (हरः) प्रहारकं गर्वं (हरसा) स्वकीयेन प्रहारकतेजसा (प्रति शृणीहि) प्रतिकृत्य नाशय (बलं वीर्यं वि रुज) बलं प्रतापं च पीडय भङ्गं कुरु ॥२५॥

    इस भाष्य को एडिट करें
    Top