Loading...
ऋग्वेद मण्डल - 10 के सूक्त 92 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 92/ मन्त्र 1
    ऋषिः - शार्यातो मानवः देवता - विश्वेदेवा: छन्दः - निचृज्जगती स्वरः - निषादः

    य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् । शोच॒ञ्छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ॥

    स्वर सहित पद पाठ

    य॒ज्ञस्य॑ । वः॒ । र॒थ्य॑म् । वि॒श्पति॑म् । वि॒शाम् । होता॑रम् । अ॒क्तोः । अति॑थिम् । वि॒भाऽव॑सुम् । शोच॑न् । शुष्का॑सु । हरि॑णीषु । जर्भु॑रत् । वृषा॑ । के॒तुः । य॒ज॒तः । द्याम् । अ॒शा॒य॒त॒ ॥


    स्वर रहित मन्त्र

    यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम् । शोचञ्छुष्कासु हरिणीषु जर्भुरद्वृषा केतुर्यजतो द्यामशायत ॥

    स्वर रहित पद पाठ

    यज्ञस्य । वः । रथ्यम् । विश्पतिम् । विशाम् । होतारम् । अक्तोः । अतिथिम् । विभाऽवसुम् । शोचन् । शुष्कासु । हरिणीषु । जर्भुरत् । वृषा । केतुः । यजतः । द्याम् । अशायत ॥ १०.९२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 92; मन्त्र » 1
    अष्टक » 8; अध्याय » 4; वर्ग » 23; मन्त्र » 1

    पदार्थः -
    (वः) हे मनुष्याः ! यूयम् “वः” विभक्तिव्यत्ययेन प्रथमास्थाने द्वितीया (यज्ञस्य रथ्यम्) अध्यात्मयज्ञस्य रथवाहकमिव वाहकम् “रथ्यः-यो रथं वहति सः” [ऋ० ५।५४।१३ दयानन्दः] (विश्पतिम्) प्रजापालकं (विशां होतारम्) तत्र विशतां ग्रहीतारं स्वीकर्त्तारं (अक्तोः-अतिथिम्) कर्मणो-मार्गस्य वा “अक्तुभिः प्रसिद्धैः कर्मभिर्मार्गैः” [ऋ० १।९४।५ दयानन्दः] उपदेष्टारम् “अतिथिः-उपदेष्टा” [ऋ० १।७३।१ दयानन्दः] (विभावसुम्) ज्ञानप्रकाशधनवन्तम्-ज्ञानप्रकाशधनस्य दातारम् “विभावसुम्-येन विविधा भा विद्यादीप्तिर्वास्यते तम्” [यजु० १२।३१ दयानन्दः] (शुष्कासु हरिणीषु) आर्द्रभावनारहितासु प्रजासु तथा मनोहारिणीषु ध्यानोपासनपरायणासु प्रजासु (जर्भुरत्) भृशं धरति यथा सः धारयति “जर्भुरत्-भृशं धरेत्” [ऋ० २।२।५ दयानन्दः] तथा (वृषा) सुखवर्षकः (केतुः) ज्ञाता द्रष्टा (यजतः) यजनीयः (द्याम्-अशायत) प्रकाशमानां दिवं द्युलोकं प्रत्यपि शेते व्याप्नोति ॥१॥

    भावार्थः -  

    इस भाष्य को एडिट करें
    Top