Loading...
ऋग्वेद मण्डल - 10 के सूक्त 95 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 95/ मन्त्र 18
    ऋषिः - उर्वशी देवता - पुरुरवा ऐळः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युब॑न्धुः । प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥

    स्वर सहित पद पाठ

    इति॑ । त्वा॒ । दे॒वाः । इ॒मे । आ॒हुः॒ । ऐ॒ळ॒ । यथा॑ । ई॒म् । ए॒तत् । भव॑सि । मृ॒त्युऽब॑न्धुः । प्र॒ऽजा । ते॒ । दे॒वान् । ह॒विषा॑ । य॒जा॒ति॒ । स्वः॒ऽगे । ऊँ॒ इति॑ । त्वम् । अपि॑ । मा॒द॒या॒से॒ ॥


    स्वर रहित मन्त्र

    इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबन्धुः । प्रजा ते देवान्हविषा यजाति स्वर्ग उ त्वमपि मादयासे ॥

    स्वर रहित पद पाठ

    इति । त्वा । देवाः । इमे । आहुः । ऐळ । यथा । ईम् । एतत् । भवसि । मृत्युऽबन्धुः । प्रऽजा । ते । देवान् । हविषा । यजाति । स्वःऽगे । ऊँ इति । त्वम् । अपि । मादयासे ॥ १०.९५.१८

    ऋग्वेद - मण्डल » 10; सूक्त » 95; मन्त्र » 18
    अष्टक » 8; अध्याय » 5; वर्ग » 4; मन्त्र » 3

    पदार्थः -
    (ऐळ) हे वाचि कुशलः “इळा वाङ्नाम” [निघं० १।११] पुरूरवः ! बहुवक्तः ! (इमे देवाः) एते विद्वांसः (त्वा-इति-आहुः) त्वामित्थं कथयन्ति (यथा-ईम्-एतत्) एतद् यत्-यथा हि (मृत्युबन्धुः-भवसि) मत्तो विरक्तः सन् मृत्युबन्धुर्यस्य तथाभूतस्त्वं न हि मृत्युस्त्वां पीडयिष्यति, तदा (ते प्रजा) तव पुत्रः (हविषा देवान् यजाति) अन्नादिना विदुषो यक्ष्यति सत्करिष्यति तव प्रसिद्धिं करिष्यति “लृडर्थे लेट्” (त्वम्-अपि स्वर्गे-उ मादयसि) त्वमपि मोक्षे खलु हर्षं प्राप्स्यसि ॥१८॥

    इस भाष्य को एडिट करें
    Top