2847 परिणाम मिले!

  • अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् । स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् ॥ - Rigveda/10/49/10
  • अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् । कुवित्सोमस्यापामिति ॥ - Rigveda/10/119/5
  • अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम्। यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥६॥ - Rigveda/4/42/6
  • अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् । अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥ - Rigveda/10/49/1
  • अहं पचाम्यहं ददामि ममेदु कर्मन्करुणेऽधि जाया। कौमारो लोको अजनिष्ट पुत्रोन्वारभेथां वय उत्तरावत् ॥ - Atharvaveda/12/3/0/47
  • अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु। मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु ॥ - Atharvaveda/19/31/0/6
  • अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् । अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे ॥ - Rigveda/10/49/4
  • अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य। शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥३॥ - Rigveda/4/26/3
  • अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् । येनेन्द्रः शुष्ममिद्दधे ॥१५०१॥ - Samveda/1501
  • अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्। येनेन्द्रः शुष्ममिद्दधे ॥ - Atharvaveda/20/115/0/2
  • अहं प्रत्नेन मन्मना गिर: शुम्भामि कण्ववत् । येनेन्द्र: शुष्ममिद्दधे ॥ - Rigveda/8/6/11
  • अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः । मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥ - Rigveda/10/48/1
  • अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय। अहमपो अनयं वावशाना मम देवासो अनु केतमायन् ॥२॥ - Rigveda/4/26/2
  • अहं मनुरभवं सूर्यश्चाहं कक्षीवाँ ऋषिरस्मि विप्रः। अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा ॥१॥ - Rigveda/4/26/1
  • अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् । अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम् ॥ - Rigveda/10/49/5
  • अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त। क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥२॥ - Rigveda/4/42/2
  • अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ - Rigveda/10/125/3
  • अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्। तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥ - Atharvaveda/4/30/0/2
  • अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ - Rigveda/10/125/6
  • अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ। अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ - Atharvaveda/4/30/0/5
  • अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ - Rigveda/10/125/1
  • अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः। अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ - Atharvaveda/4/30/0/1
  • अहं वदामि नेत्त्वं सभायामह त्वं वद। ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥ - Atharvaveda/7/38/0/4
  • अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम्। अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥ - Atharvaveda/6/61/0/2
  • अहं विष्यामिमयि रूपमस्या वेददित्पश्यन्मनसः कुलायम्। न स्तेयमद्मिमनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥ - Atharvaveda/14/1/0/57
  • अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् । यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम् ॥ - Rigveda/10/49/6
  • अहं सप्त स्रवतो धारयं वृषा द्रवित्न्व: पृथिव्यां सीरा अधि । अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये ॥ - Rigveda/10/49/9
  • अहं सप्तहा नहुषो नहुष्टर: प्राश्रावयं शवसा तुर्वशं यदुम् । अहं न्य१न्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम् ॥ - Rigveda/10/49/8
  • अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्व१न्तः समुद्रे । ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ - Rigveda/10/125/7
  • अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे। ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ - Atharvaveda/4/30/0/7
  • अहं सूर्यस्य परि याम्याशुभि: प्रैतशेभिर्वहमान ओजसा । यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथै: ॥ - Rigveda/10/49/7
  • अहं सो अस्मि यः पुरा सुते वदामि कानि चित्। तं मा व्यन्त्याध्यो३ वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी ॥ - Rigveda/1/105/7
  • अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये३ यजमानाय सुन्वते ॥ - Rigveda/10/125/2
  • अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्। अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥ - Atharvaveda/4/30/0/6
  • अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभि: । त्वामिदेव तममे समश्वयुर्गव्युरग्र मथीनाम् ॥ - Rigveda/8/53/8
  • अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति । शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् ॥ - Rigveda/8/74/13
  • अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति । अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥ - Rigveda/10/52/2
  • अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान्। न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या३ क्षामवस्थाः॥ - Rigveda/3/32/11
  • अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥ - Rigveda/1/32/2
  • अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष। वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥ - Atharvaveda/2/5/0/6
  • अहन्निन्द्रो अदहदग्निरिन्दो पुरा दस्यून्मध्यन्दिनादभीके। दुर्गे दुरोणे क्रत्वा न यातां पुरू सहस्रा शर्वा नि बर्हीत् ॥३॥ - Rigveda/4/28/3
  • अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन । स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥ - Rigveda/1/32/5
  • अहन्वृत्रमृचीषम और्णवाभमहीशुवम् । हिमेनाविध्यदर्बुदम् ॥ - Rigveda/8/32/26
  • अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभि: । अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥ - Rigveda/10/49/3
  • अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य। ऋतेन पुत्रो अदितेर्ऋतावोत त्रिधातु प्रथयद्वि भूम ॥४॥ - Rigveda/4/42/4
  • अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम । यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥५९४ - Samveda/594
  • अहमस्मि महामहोऽभिनभ्यमुदीषितः । कुवित्सोमस्यापामिति ॥ - Rigveda/10/119/12
  • अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः । अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिताः ॥ - Rigveda/10/166/2
  • अहमस्मि सहमान उत्तरो नाम भूम्याम्। अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥ - Atharvaveda/12/1/0/54
  • अहमस्मि सहमानाथ त्वमसि सासहिः । उभे सहस्वती भूत्वी सपत्नीं मे सहावहै ॥ - Rigveda/10/145/5
Top