Loading...
ऋग्वेद मण्डल - 1 के सूक्त 145 के मन्त्र
1 2 3 4 5
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 145/ मन्त्र 1
    ऋषिः - दीर्घतमा औचथ्यः देवता - अग्निः छन्दः - विराड्जगती स्वरः - निषादः

    तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते। तस्मि॑न्त्सन्ति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टय॒: स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पति॑: ॥

    स्वर सहित पद पाठ

    तम् । पृ॒च्छ॒त॒ । सः । ज॒गा॒म॒ । सः । वे॒द॒ । सः । चि॒कि॒त्वान् । ई॒य॒ते॒ । सः । नु । ई॒य॒ते॒ । तस्मि॑न् । स॒न्ति॒ । प्र॒ऽशिषः॑ । तस्मि॑न् । इ॒ष्टयः॑ । सः । वाज॑स्य । शव॑सः । शु॒ष्मिणः॑ । पतिः॑ ॥


    स्वर रहित मन्त्र

    तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते। तस्मिन्त्सन्ति प्रशिषस्तस्मिन्निष्टय: स वाजस्य शवसः शुष्मिणस्पति: ॥

    स्वर रहित पद पाठ

    तम्। पृच्छत। सः। जगाम। सः। वेद। सः। चिकित्वान्। ईयते। सः। नु। ईयते। तस्मिन्। सन्ति। प्रऽशिषः। तस्मिन्। इष्टयः। सः। वाजस्य। शवसः। शुष्मिणः। पतिः ॥ १.१४५.१

    ऋग्वेद - मण्डल » 1; सूक्त » 145; मन्त्र » 1
    अष्टक » 2; अध्याय » 2; वर्ग » 14; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    विषयः

    अथोपदेश्योपदेशकगुणानाह ।

    अन्वयः

    हे मनुष्याः स सत्यमार्गे जगाम स ब्रह्म वेद स चिकित्वान् सुखानीयते सान्वीयते तस्मिन् प्रशिषः सन्ति तस्मिन्निष्टयः सन्ति स वाजस्य शवसः शुष्मिणः पतिरस्ति तं यूयं पृच्छत ॥ १ ॥

    पदार्थः

    (तं) पूर्वमन्त्रप्रतिपादितं विद्वांसम् (पृच्छत) अत्रान्येषामपीति दीर्घः। (सः) (जगाम) गच्छति (सः) (वेद) जानाति (सः) (चिकित्वान्) विज्ञानयुक्तः (ईयते) प्राप्नोति (सः) (नु) सद्यः (ईयते) प्राप्नोति (तस्मिन्) (सन्ति) (प्रशिषः) प्रकृष्टानि शासनानि (तस्मिन्) (इष्टयः) सत्सङ्गतयः (सः) (वाजस्य) विज्ञानमयस्य (शवसः) बलस्य (शुष्मिणः) बहुबलयुक्तस्य सैन्यस्य राज्यस्य वा (पतिः) स्वामी ॥ १ ॥

    भावार्थः

    यो विद्यासुशिक्षायुक्तो धार्मिकः प्रयत्नशीलः सर्वोपकारी सत्यस्य पालक आप्तो विद्वान् भवेत् तदाश्रयाध्यापनोपदेशैः सर्वे मनुष्याः इष्टविनयप्राप्ताः सन्तु ॥ १ ॥

    हिन्दी (1)

    विषय

    अब एक सौ पैंतालीसवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र में उपदेश करने योग्य और उपदेश करनेवालों के गुणों का वर्णन करते हैं ।

    पदार्थ

    हे मनुष्यो ! (सः) वह विद्वान् सत्य मार्ग में (जगाम) चलता है (सः) वह (वेद) ब्रह्म को जानता है (सः) वह (चिकित्वान्) विज्ञानयुक्त सुखों को (ईयते) प्राप्त होता (सः) वह (नु) शीघ्र अपने कर्त्तव्य को (ईयते) प्राप्त होता है (तस्मिन्) उसमें (प्रशिषः) उत्तम-उत्तम शिक्षा (सन्ति) विद्यमान हैं (तस्मिन्) उसमें (इष्टयः) सत्सङ्ग विद्यमान हैं (सः) वह (वाजस्य) विज्ञान का (शवसः) बल वा (शुष्मिणः) बलयुक्त सेनासमूह वा राज्य का (पतिः) पालनेवाला स्वामी है, (तम्) उसको तुम (पृच्छत) पूछो ॥ १ ॥

    भावार्थ

    जो विद्या और अच्छी शिक्षायुक्त, धार्मिक और यत्नशील सबका उपकारी, सत्य की पालना करनेवाला विद्वान् हो, उसके आश्रय जो पढ़ाना और उपदेश हैं, उनसे सब मनुष्य चाहे हुए काम और विनय को प्राप्त हों ॥ १ ॥

    मराठी (1)

    विषय

    या सूक्तात उपदेश करणारे व ऐकणारे यांच्या कर्तव्याचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥

    भावार्थ

    जो विद्या व सुशिक्षण यांनी युक्त, धार्मिक व प्रयत्नशील तसेच सर्वांवर उपकार करणारा, सत्याचे पालन करणारा विद्वान असतो, त्याच्या आश्रयाने अध्यापन व उपदेश ग्रहण करून सर्व माणसांनी इच्छित काम करून विनयी बनावे. ॥ १ ॥

    इंग्लिश (1)

    Meaning

    Agni is the lord of light, knowledge and power: of him they ask the questions, he goes all round, he knows, he has the wisdom and awareness and the knowledge of sciences, he reaches, yes, reaches anywhere he wants. In him lies the power of governance and law, in him lies the potential for all you want, and he is the master, ruler and commander of energy, strength and valour, and of the fiery forces of his dominion.

    Top