ऋग्वेद मण्डल - 1 के सूक्त 163 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 163/ मन्त्र 1
    ऋषि: - दीर्घतमा औचथ्यः देवता - अश्वोऽग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात्। श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥

    स्वर सहित पद पाठ

    यत् । अक्र॑न्दः । प्र॒थ॒मम् । जाय॑मानः । उ॒त्ऽयन् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् । श्ये॒नस्य॑ । प॒क्षा । ह॒रि॒णस्य॑ । बा॒हू इति॑ । उ॒प॒ऽस्तुत्य॑म् । महि॑ । जा॒तम् । ते॒ । अ॒र्व॒न् ॥


    स्वर रहित मन्त्र

    यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात्। श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥

    स्वर रहित पद पाठ

    यत्। अक्रन्दः। प्रथमम्। जायमानः। उत्ऽयन्। समुद्रात्। उत। वा। पुरीषात्। श्येनस्य। पक्षा। हरिणस्य। बाहू इति। उपऽस्तुत्यम्। महि। जातम्। ते। अर्वन् ॥ १.१६३.१

    ऋग्वेद - मण्डल » 1; सूक्त » 163; मन्त्र » 1
    अष्टक » 2; अध्याय » 3; वर्ग » 11; मन्त्र » 1

    पदार्थ -
    हे (अर्वन्) विज्ञानवान् विद्वान् ! (यत्) जिस कारण तू (समुद्रात्) अन्तरिक्ष से (उत) अथ (वा) वा (पुरीषात्) पूर्ण कारण से (उद्यन्) उदय को प्राप्त होते हुए सूर्य के तुल्य (जायमानः) उत्पन्न होता (प्रथमम्) पहिले (अक्रन्दः) शब्द करता है, जिस (ते) तेरा (श्येनस्य) वाज के (पक्षा) पङ्खों के समान (हरिणस्य) हरिण के (बाहू) बाधा करनेवाली भुजा के तुल्य (उपस्तुत्यम्) समीप से प्रशंसा के योग्य (महि, जातम्) बड़ा उत्पन्न हुआ काम साधक अग्नि है सो सबको सत्कार करने योग्य है ॥ १ ॥

    भावार्थ -
    इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो धर्मयुक्त ब्रह्मचर्य से विद्याओं को पढ़ते हैं, वे सूर्य के समान प्रकाशमान, वाज के समान वेगवान् और हरिण के समान कूदते हुए प्रशंसित होते हैं ॥ १ ॥

    अन्वयः -
    हे अर्वन् यत् त्वं समुद्रादुतापि वा पुरीषादुद्यन्निव जायमानः प्रथममक्रन्दः। यस्य ते श्येनस्य पक्षेव हरिणस्य बाहू इव उपस्तुत्यं महि जातं कर्माङ्गमग्निरस्ति स सर्वैः सत्कर्त्तव्यः ॥ १ ॥

    पदार्थः -
    (यत्) यस्मात् कारणात् (अक्रन्दः) शब्दायसे (प्रथमम्) आदिमम् (जायमानः) उत्पद्यमानः (उद्यन्) उदयं प्राप्नुवन् (समुद्रात्) अन्तरिक्षात् (उत) अपि (वा) पक्षान्तरे (पुरीषात्) पूर्णात्कारणात् (श्येनस्य) (पक्षा) पक्षौ (हरिणस्य) (बाहू) बाधकौ भुजौ (उपस्तुत्यम्) उपस्तोतुमर्हम् (महि) महत् (जातम्) उत्पन्नम् (ते) तव (अर्वन्) विज्ञानवन् ॥ १ ॥

    भावार्थः -
    अत्र वाचकलुप्तोपमालङ्कारः। ये धर्म्येण ब्रह्मचर्येण विद्या अधीयते ते सूर्यवत् प्रकाशमानाः श्येनवद्वेगवन्तो मृगवदुत्प्लवमानाः प्रशंसिता भवन्ति ॥ १ ॥

    Meaning -
    Arvan, divine racer, Agni, universal energy, first born of Lord Omnipotent, rising from the oceans of space, the sky and the sea, who roared with force at your very birth, your wings are like the wings of the celestial eagle that brings the showers of soma and the warmth of fire, and your arms are like the arms of the sun, the thunderbolt. Surely great is your birth from nature, worthy of admiration and homage.

    भावार्थ -
    या मंत्रात वाचकलुप्तोपमालंकार आहे. जे धर्मयुक्त ब्रह्मचर्य पाळून विद्या शिकतात ते सूर्याप्रमाणे प्रकाशमान, बहिरीससाण्याप्रमाणे वेगवान व हरिणाप्रमाणे चपळ असतात त्यांची प्रशंसा होते. ॥ १ ॥

    Top