Loading...
ऋग्वेद मण्डल - 1 के सूक्त 55 के मन्त्र
1 2 3 4 5 6 7 8
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 55/ मन्त्र 4
    ऋषिः - सव्य आङ्गिरसः देवता - इन्द्र: छन्दः - जगती स्वरः - निषादः

    स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम्। वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥

    स्वर सहित पद पाठ

    सः । इत् । वने॑ । न॒म॒स्युऽभिः॑ । व॒च॒स्य॒ते॒ । चारु॑ । जने॑षु । प्र॒ऽब्रु॒वा॒णः । इ॒न्द्रि॒यम् । वृषा॑ । छन्दुः॑ । भ॒व॒ति॒ । ह॒र्य॒तः । वृषा॑ । क्षेमे॑ण । धेना॑म् । म॒घवा॑ । यत् । इन्व॑ति ॥


    स्वर रहित मन्त्र

    स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम्। वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥

    स्वर रहित पद पाठ

    सः। इत्। वने। नमस्युऽभिः। वचस्यते। चारु। जनेषु। प्रऽब्रुवाणः। इन्द्रियम्। वृषा। छन्दुः। भवति। हर्यतः। वृषा। क्षेमेण। धेनाम्। मघवा। यत्। इन्वति ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 55; मन्त्र » 4
    अष्टक » 1; अध्याय » 4; वर्ग » 19; मन्त्र » 4
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनः स किं कुर्यादित्युपदिश्यते ॥

    अन्वयः

    यद्योऽध्यापक उपदेशको वा वने जनेषु चार्विन्द्रियं ब्रुवाणो हर्यतः प्रभवति वृषा मघवा छन्दुर्वृषा क्षेमेण सहितां धेनामिन्वति स इन्नमस्युभिर्वचस्यते ॥ ४ ॥

    पदार्थः

    (सः) अध्यापक उपदेशको वा (इत्) एव (वने) एकान्ते (नमस्युभिः) नम्रैर्विद्यार्थिभिः श्रोतृभिः (वचस्यते) परिभाष्यते सर्वतः स्तूयते (चारु) सुन्दरम् (जनेषु) प्रसिद्धेषु मनुष्येषु (प्रब्रुवाणः) यः प्रकर्षेण वाचयत्युपदेशयति वा सः (इन्द्रियम्) विज्ञानयुक्तं मनः (वृषा) समर्थः (छन्दुः) स्वच्छन्दः (भवति) वर्त्तते (हर्यतः) सर्वेषां सुबोधं कामयमानः (वृषा) सत्योपदेशवर्षकः (क्षेमेण) रक्षणेन (धेनाम्) विद्याशिक्षायुक्तां वाचम्। धेनेति वाङ्नामसु पठितम्। (निघं०१.११) (मघवा) प्रशस्तविद्याधनवान् (यत्) यः (इन्वति) व्याप्नोति ॥ ४ ॥

    भावार्थः

    परमविद्वान् सर्वान् मनुष्यान् सर्वा विद्याः प्रापय्य विद्यावतो बहुश्रुतान् स्वच्छन्दान् सुरक्षितान् कुर्याद्यतो निःसंशयाः सन्तः सदा सुखिनः स्युः ॥ ४ ॥

    हिन्दी (1)

    विषय

    फिर वह कैसा कर्म करे, यह उपदेश अगले मन्त्र में किया है ॥

    पदार्थ

    (यत्) जो अध्यापक वा उपदेशकर्त्ता (वने) एकान्त में एकाग्र चित्त से (जनेषु) प्रसिद्ध मनुष्यों में (चारु) सुन्दर (इन्द्रियम्) मन को (ब्रुवाणः) अच्छे प्रकार कहता (हर्य्यतः) और सबको उत्तम बोध की कामना करता हुआ (प्रभवति) समर्थ होता है (वृषा) दृढ़ (मघवा) प्रशंसित विद्या और धनवाला (छन्दुः) स्वच्छन्द (वृषा) सुख वर्षानेवाला (क्षेमेण) रक्षण के सहित (धेनाम्) विद्या शिक्षायुक्त वाणी को (इन्वति) व्याप्त करता है (स इत्) वही (नमस्युभिः) नम्र विद्वानों से (वचस्यते) प्रशंसा को प्राप्त होता है ॥ ४ ॥

    भावार्थ

    उत्तम विद्वान् सभाध्यक्ष सब मनुष्यों के लिये सब विद्याओं को प्राप्त करके सबको विद्यायुक्त, बहुश्रुत, रक्षा वा स्वच्छन्दतायुक्त करें कि जिससे सब निस्सन्देह होकर सदा सुखी रहें ॥ ४ ॥

    मराठी (1)

    भावार्थ

    उत्तम विद्वान सभाध्यक्षाने सर्व माणसांना सर्व विद्या प्राप्त करून द्यावी. सर्वांना विद्यायुक्त व बहुश्रुत करावे व त्यांचे रक्षण करावे म्हणजे ते निश्चितपणे सुखी होतील. ॥ ४ ॥

    इंग्लिश (1)

    Meaning

    Celebrated is Indra, far and wide in town and forest and in distant lands, by his admirers in worship and reverence, lord and bold as he is, expressing his knowledge and power among people gracefully. Generous he is, joyous and free, full of blessings for those who are keen to learn and earn the wealth of life. And generous of knowledge, power and protection, glorious all round, he commands the voice of praise and appreciation everywhere.

    Top