ऋग्वेद - मण्डल 10/ सूक्त 75/ मन्त्र 1
ऋषि: - सिन्धुक्षित्प्रैयमेधः
देवता - नद्यः
छन्दः - निचृज्जगती
स्वरः - निषादः
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः । प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ॥
स्वर सहित पद पाठप्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः । प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥
स्वर रहित मन्त्र
प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः । प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिन्धुरोजसा ॥
स्वर रहित पद पाठप्र । सु । वः । आपः । महिमानम् । उत्ऽतमम् । कारुः । वोचाति । सदने । विवस्वतः । प्र । सप्तऽसप्त । त्रेधा । हि । चक्रमुः । प्र । सृत्वरीणाम् । अति । सिन्धुः । ओजसा ॥ १०.७५.१
ऋग्वेद - मण्डल » 10; सूक्त » 75; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 6; मन्त्र » 1
Acknowledgment
अष्टक » 8; अध्याय » 3; वर्ग » 6; मन्त्र » 1
Acknowledgment
विषय - इस सूक्त में तीनों लोकों अप्तत्त्व, पृथिवी पर जलरूप में नदियाँ भिन्न-भिन्न रूपवाली उन से लाभ लेना आदि कहा है।
पदार्थ -
(आपः) हे आप्त व्याप्त प्रवाहो ! (वः) तुम्हारे (उत्तमं महिमानम्) उत्तम महत्त्व को (कारुः सु प्रवोचाति) स्तुतिकर्त्ता शिल्पी-सीमाओं का कर्त्ता प्रकृष्टरूप से कहता है (विवस्वतः सदने) विशिष्टता से राष्ट्र में विज्ञानस्थल में जो बसता है, ऐसे वैज्ञानिक राजा के राजभवन में या विज्ञानभवन में (सप्त सप्त त्रेधा हि प्रचक्रमुः) सात-सात करके तीनों स्थानों में अर्थात् एक-एक स्थान में सात-सात होकर बहते हैं (प्रसृत्वरीणाम्) उन व्याप्त धाराओं का (सिन्धुः) बहनेवाला (ओजसा-अति) अति वेग से बहता है, वह अप् तत्त्व पदार्थ द्युलोक में सात रङ्ग की सूर्य की किरणें हैं, अन्तरिक्ष में सातरङ्ग की विद्युत् की धाराएँ हैं और पृथिवी पर सात जलधाराएँ हैं ॥१॥
भावार्थ - अप्तत्त्व पदार्थ तीनों लोकों में सात-सात करके प्रवाहित होते हैं। द्युलोक में सूर्य की किरणें, अन्तरिक्ष में विद्युद्धाराएँ, पृथिवी पर जलप्रवाह, इनका जाननेवाला वैज्ञानिक शिल्पी राजा के राजभवन में या विज्ञानभवन में इनका प्रवचन करे, इनसे लाभ लेने के लिये ॥१॥
Bhashya Acknowledgment
विषयः - अस्मिन् सूक्ते त्रिषु लोकेषु अप्तत्त्वप्रवर्तनं पृथिव्यां तु जलरूपेण नद्यः प्रवहन्ति तासामुपयोगश्च जनैर्ग्राह्य इत्येवमादयो विषया विस्तरेण प्रदर्शिताः सन्ति ता नद्यश्च विविधरूपाः सन्ति। वक्तव्यम्−केचिन्मन्यन्तेऽत्र सूक्ते गङ्गाद्यो नद्यः शरीरस्थनाड्यः सन्ति न पृथिवीपृष्ठा नद्य इति न सम्यक् तासामाधिदैविकक्षेत्रस्य वस्तुतत्वात्। निघण्टुक्रमोऽपि साक्ष्यं यतो ‘नद्यः’ इति कथनानन्तरम् ‘आपः’ पुनः ‘ओषधयः’। यास्काभिमतिश्च नदीकथने पृथिवीस्थानदेवतानां स्तवनप्रसङ्गात् तथा ‘सरस्वती सर इत्युदकनाम सर्तेस्तद्वती’ तथा “सुषोमा सिन्धुर्यदेनामभिप्रसुवन्ति नद्यः। वेदस्य च स्वतः साक्ष्यं गङ्गाद्या नद्यो भवन्ति, तद्यथा (१) “सत्यमित्त्वा॑महे नदि पुरुष्ण्यव॑ देदिशम्। नेमा॑पो अश्वदात॑रः शवि॑ष्ठादस्ति मर्त्यः॑॥” (ऋ० ८।७४।१५) अत्र महे नदि ! परुष्णि ! सम्बोधनं पुनश्च सा हि ‘आपः’ इति नाम्ना सम्बोध्यते। (२) “मध्वा॑ पृञ्चे नद्यः॑ पर्व॑ता गिरयो मधु। मधु परु॑ष्णी शीपा॑ला शमास्ने अ॑स्तु शं हृदे॥” (अथर्व० ६।१२।३) इति सर्पविषचिकित्सायां ‘नद्यः पर्वता गिरयः परुष्णी’ कथनेन नाडी किन्तु नदी हि स्पष्टा। (३) “यत् सिन्धौ यदसि॑क्न्यां यत्स॑मुद्रेषु॑ मरुतः सुबर्हिषः। यत्पर्व॑तेषु भेषजम्॥” (ऋ० ३।३३।१) इत्यत्र “विपाट् या विविधं पटति गच्छति विपाटयति-वा सा, शुतुद्री शु शीघ्रं तुदति, व्यथति सा पयसा जलेन जवेते” [पदार्थे] “अश्वे इव विषेते हासमाने गावेव शुभ्रे रिहाणे पयसा विपाट् शुतुद्री प्रजवेते इव भवेताम्” [अन्वये] “यथा पर्वतानां मध्ये वर्तमाना नद्योऽश्वा इव धावन्ति गाव इव शब्दायन्ते” [भावार्थे] अत्र दयानन्दमते विपाट् शुतुद्री नद्यौ स्तः, इति स्पष्टम्। एवं तर्हि गङ्गादिनामभिर्वेदे न भवितव्यं तस्येश्वरज्ञानात्मकत्वात् सृष्टेरारम्भे प्रकाश्यमानत्वात् ? उच्यते मनुष्यरचितानां वस्तूनां रथादीनि नामानि यथा वेदे सन्ति तथा गङ्गादिनामान्यपि निरवद्यानि-अशङ्कनीयानि, इदं कथं मनुष्यरचितानां वस्तूनां नामानि तु स्युः स्वरचितानामीश्वररचितानां नामानि तु स्युरिति मतिर्न युक्ता। ननु गङ्गाद्या नद्यस्तु खल्वार्यावर्ते [भारते] सन्ति तेन-आर्यावर्तस्य देशस्येतिहासो भविष्यति वेदे। उच्यते-आर्यावर्ते देशे गङ्गाद्याः प्रवहन्तीति न वाच्यं किन्तु पृथिवीपृष्ठे प्रवहन्तीति वक्तव्यम्, तदा पृथिवीपृष्ठे या या नदी यथा यथा गुणयुक्ता दृष्टा पुरातनैर्वैदिकैर्ऋषिभिस्तत्तद्गुणवशात् तस्यास्तस्या-स्तत्तन्नामकरणं कृतं वेदाद् दृष्ट्वा, मनुना खलूक्तं यथा “सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक्। वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे॥” (मनु० १।२१) यास्केन गुणा दर्शिता हि “गङ्गा गमनात्” इति यौगिकनामानि न रूढिनामानि पुनश्च खागोलिकेन भौगोलिकेन चेतिहासेन वेदेऽवश्यं भवितव्यमेव। यथा ‘सूर्यः-चन्द्रमाः’ इत्येवमादीनां खागोलिकानां पदार्थानां वर्णनं वेदे तथा गङ्गादीनां भौगोलिकानां वस्तूनामपि वर्णनेन भवितव्यम्। अपि तु नदीनां वैदिकनाम्नां क्षेत्रं केवलं पृथिवी हि नास्ति किन्तु पृथिव्यन्तरिक्षद्युलोकास्त्रयोऽपि क्षेत्राणि सन्ति, एतत्सूक्तस्य प्रथममन्त्रे ह्युक्तमस्ति “प्र सप्त स॑प्त त्रेधा हि च॑क्रमुः” (ऋ० १०।७५।१) पृथिवीस्थानेषु नद्योऽपि देवतात्वस्य भागिन्यः सन्ति, कस्याश्चिज्जलपाने भेषजं कस्याञ्चित् स्नाने महौषधं तथाऽन्नोत्पादनाय क्षेत्रसेचनाय तु सर्वा नद्य उपकारिण्यः सन्ति ता एताः स्तोतव्याः प्रशंसनीया उपयोज्याः।
पदार्थः -
(आपः) हे आप्ता व्याप्ता प्रवाहाः ! (वः) युष्माकम् (उत्तमं महिमानम्) उत्तमं महत्त्वं (कारुः सु प्रवोचाति) स्तुतिकर्त्ता शिल्पी “स्तुत्यानां शिल्पकर्मणां कर्त्ता” [ऋ० १।८३।६ दयानन्दः] सीम्नां कर्त्ता “स्तोमानां कर्त्ता” [निरु० ६।६] “स्तोमा आसन् प्रतिधमः” [ऋ० १०।८५।८] प्रवक्ति प्रब्रवीति (विवस्वतः सदने) यो विशिष्टतया राष्ट्रे विज्ञानस्थले वसति तस्य राज्ञो वैज्ञानिकस्य राजभवने विज्ञानभवने वा (सप्त सप्त त्रेधा हि प्रचक्रमुः) सप्त सप्त त्रिषु स्थानेषु, एकैकस्थाने सप्त सप्त भूत्वा प्रक्रामन्ति प्रवहन्ति, ‘आपस्त्रिषु स्थानेषु सन्ति’ पृथिव्यामन्तरिक्षे दिवि च, यथोक्तम् “द्यौर्वा अपां सदनम्” [श० ७।५।२।५६] “अन्तरिक्षं वा अपां सधस्थम्” [श० ७।५।२।५७] “इयं पृथिवी वा अपामयनमस्यां ह्यापो वहन्ति” [श० ७।५।२।५०] दिवि कथमित्युच्यते “अमूर्या उपसूर्ये याभिर्वा सूर्यः सह” [अथर्व० १।४।२] ता आपः अप्तत्त्वपदार्थाः, दिवि सप्तरङ्गवन्तः सूर्यरश्मयः, अन्तरिक्षे सप्तरङ्गा विद्युत्तरङ्गाः, पृथिव्यां सप्त जलप्रवाहाः। (प्रसृत्वरीणाम्) तासामपां व्याप्तधाराणां (सिन्धुः) स्यन्दमानः प्रवाहः (ओजसा-अति) बलेन वेगेन अतिवहति ॥१॥
Bhashya Acknowledgment
Meaning -
O fluent streams of water, energy and light, your best and highest grandeur and quality in every region of the master of earth, skies and light (Vivasvan), the scholar scientist devotee adores, describes and celebrates. Seven streams flow three ways in every one of the three regions, and in all the flowing streams the one common current flows on with its own innate energy and power.
Bhashya Acknowledgment
भावार्थ - अप्तत्त्व पदार्थ तिन्ही लोकांत सात-सात करून प्रवाहित होतात. द्युलोकात सात प्रकारची सूर्यकिरणे, अंतरिक्षात सात प्रकारची विद्युतधारा, पृथ्वीवर सात प्रकारचे जलप्रवाह जाणणाऱ्या वैज्ञानिकाने त्यांच्यापासून लाभ घेण्यासाठी राजाच्या राजभवनात किंवा विज्ञानभवनात त्यांचा प्रचार करावा, प्रवचन करावे. ॥१॥
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Dhananjay Joshi
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal