ऋग्वेद मण्डल - 2 के सूक्त 22 के मन्त्र
1 2 3 4
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 22/ मन्त्र 1
    ऋषि: - गृत्समदः शौनकः देवता - इन्द्र: छन्दः - अष्टिः स्वरः - मध्यमः

    त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑नासु॒तं यथाव॑शत्। स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑॥

    स्वर सहित पद पाठ

    त्रिऽक॑द्रुकेषु । म॒हि॒षः । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्मः॑ । तृ॒पत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् । सः । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥


    स्वर रहित मन्त्र

    त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुनासुतं यथावशत्। स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः॥

    स्वर रहित पद पाठ

    त्रिऽकद्रुकेषु। महिषः। यवऽआशिरम्। तुविऽशुष्मः। तृपत्। सोमम्। अपिबत्। विष्णुना। सुतम्। यथा। अवशत्। सः। ईम्। ममाद। महि। कर्म। कर्तवे। महाम्। उरुम्। सः। एनम्। सश्चत्। देवः। देवम्। सत्यम्। इन्द्रम्। सत्यः। इन्दुः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 22; मन्त्र » 1
    अष्टक » 2; अध्याय » 6; वर्ग » 28; मन्त्र » 1

    पदार्थ -
    जो (तुविशुष्मः) बहुत बलवाला (महिषः) बड़ा (तृपत्) तृप्त करता हुआ (त्रिकद्रुकेषु) जिनमें तीन आह्वान विद्यमान उनमें (यवाशिरम्) यवों के भक्षण करनेवाले को और (विष्णुना) व्यापक परमेश्वर वा वायु से (सुतम्) उत्पादन किये हुए (सोमम्) रसको (यथा) जैसे (अपिबत्) पीता और (अवशत्) कामना करता है (सः) वह (ईम्) जलसे (महि) बड़े (कर्म) कर्म के (कर्तवे) करने को (ममाद) हर्षित हो, तथा जो (सत्यः) नाशरहित (इन्दुः) चन्द्रमा (देवः) सब ओर से प्रकाशमान (एनम्) इस (महाम्) महात्माओं के (उरुम्) बहुत (सत्यम्) अविनाशी (देवम्) प्रकाशमान (इन्द्रम्) सर्व लोकों को आधाररूप सूर्य लोक को (सश्चत्) संयुक्त करता, वह पूज्य होता है ॥१॥

    भावार्थ -
    इस मन्त्र में उपमालङ्कार है। जो मनुष्य जगदीश्वर ने निर्मित किये लोकों में विद्या और उत्तम यत्न से प्रिय मनोहर भोग कर सकता है, वह अविनाशी परमात्मा को जान वा जना सकता है ॥१॥

    अन्वयः -
    यो तुविशुष्मो महिषस्तृपत् त्रिकद्रुकेषु यवाशिरं विष्णुना सुतं सोमं यथाऽपिबदवशच्च स ईं महि कर्म कर्त्तवे ममाद यः सत्य इन्दुर्देव एनं महामुरुं सत्यं देवमिन्द्रं सश्चत्स पूज्यो भवति ॥१॥

    पदार्थः -
    (त्रिकद्रुकेषु) त्रीणि कद्रुकान्याह्वानानि येषु तेषु (महिषः) महान् (यवाशिरम्) यो यवानश्नाति तम् (तुविशुष्मः) तुवि बहु शुष्मं बलं यस्य सः (तृपत्) तृप्यन्। अत्र विकरणव्यत्ययेन शः (सोमम्) रसम् (अपिबत्) पिबति (विष्णुना) व्यापकेन परमेश्वरेण वायुना वा (सुतम्) निष्पादितम् (यथा) येन प्रकारेण (अवशत्) कामयते (सः) (ईम्) जलेन (ममाद) हृष्येत् (महि) महत् (कर्म्म) (कर्त्तवे) कर्त्तुम् (महाम्) महताम् (उरुम्) बहुम् (सः) (एनम्) (सश्चत्) संयोजयति। अत्राडभावः (देवः) सर्वतः प्रकाशमानः (देवम्) द्योतमानम् (सत्यम्) अविनाशिनम् (इन्द्रम्) सर्वलोकधारकं सूर्य्यम् (सत्यः) नाशरहितः (इन्दुः) चन्द्रः ॥१॥

    भावार्थः -
    अत्रोपमालङ्कारः। यो मनुष्यः जगदीश्वरेण निर्मितेषु लोकेषु विद्याप्रयत्नाभ्यां प्रियं कमनीयं भोगं कर्त्तुं शक्नोति सो विनाशिनं परमात्मानमपि वेदितुं वेदयितुं वा शक्नोति ॥१॥

    Meaning -
    The great and powerful sun drinks up the soma, essence of vital juices reinforced with herbal elixir, matured in three containers, i.e., the earth, the sky and the heaven of light, and distilled by light and wind while it shines and energises the essences.$He who delights in energising this sun, greatest of the great in nature, to do great things, who blesses and continues to bless this blazing power of light is the eternal, ever true, self-refulgent Lord Supreme, blissful as the moon.$And he who would love to do great things vast and worthy of the great, he, true and bright as the moon, should serve and meditate on this lord of unbounded light and energy.

    भावार्थ -
    या मंत्रात उपमालंकार आहे. जो माणूस जगदीश्वराने निर्माण केलेल्या लोकांमध्ये (गोलांमध्ये) विद्या व प्रयत्नाने आवडते भोग भोगू शकतो, तो अविनाशी परमेश्वराला जाणू शकतो किंवा जाणवून घेऊ शकतो. ॥ १ ॥

    Top