Loading...
ऋग्वेद मण्डल - 3 के सूक्त 60 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 60/ मन्त्र 3
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - ऋभवः छन्दः - जगती स्वरः - निषादः

    इन्द्र॑स्य स॒ख्यमृ॒भवः॒ समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे। सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृतः॑ सुकृ॒त्यया॑॥

    स्वर सहित पद पाठ

    इन्द्र॑स्य । स॒ख्यम् । ऋ॒भवः॑ । सम् । आ॒न॒शुः॒ । मनोः॑ । नपा॑तः । अ॒पसः॑ । द॒ध॒न्वि॒रे॒ । सौ॒ध॒न्व॒नासः॑ । अ॒मृ॒त॒ऽत्वम् । आ । ई॒रि॒रे॒ । वि॒ष्ट्वी । शमी॑भिः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ ॥


    स्वर रहित मन्त्र

    इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे। सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया॥

    स्वर रहित पद पाठ

    इन्द्रस्य। सख्यम्। ऋभवः। सम्। आनशुः। मनोः। नपातः। अपसः। दधन्विरे। सौधन्वनासः। अमृतऽत्वम्। आ। ईरिरे। विष्ट्वी। शमीभिः। सुऽकृतः। सुऽकृत्यया॥

    ऋग्वेद - मण्डल » 3; सूक्त » 60; मन्त्र » 3
    अष्टक » 3; अध्याय » 4; वर्ग » 7; मन्त्र » 3
    Acknowledgment

    संस्कृत (1)

    विषयः

    अथ सर्वाधीशस्य परमात्मनः सखित्वफलमाह।

    अन्वयः

    य ऋभव इन्द्रस्य सख्यं समानशुर्यस्य मनोर्नपातोऽस्मा अपसो दधन्विरे ते सौधन्वनासः शमीभिर्विष्ट्वी कृत्वा सुकृत्यया सुकृतः सन्तोऽमृतत्वमेरिरे ॥३॥

    पदार्थः

    (इन्द्रस्य) परमैश्वर्ययुक्तस्य परमात्मनः (सख्यम्) मित्रत्वम् (ऋभवः) मेधाविनः (सम्) (आनशुः) सम्यक् प्राप्नुयुः। अत्राऽपि व्यत्ययेन परस्मैपदम्। (मनो) मननशीलस्य (नपातः) न विद्यते पातो यस्य (अपसः) कर्माणि (दधन्विरे) दधति (सौधन्वनासः) शोभनज्ञानस्य पुत्राः (अमृतत्वम्) (आ) (ईरिरे) प्राप्नुवन्ति (विष्ट्वी) कर्म (शमीभिः) कर्मभिः (सुकृतः) ये सुष्ठु कुर्वन्ति ते (सुकृत्यया) धर्मक्रियया ॥३॥

    भावार्थः

    ये परमेश्वरे प्रीतिं तदाज्ञाभङ्गाद्भयं धर्म्यकर्माचरणं कुर्वन्ति त एव मोक्षमाप्नुवन्ति ॥३॥

    हिन्दी (1)

    विषय

    अब सर्वाधीश परमात्मा की मित्रता का फल अगले मन्त्र में कहते हैं।

    पदार्थ

    जो (ऋभवः) बुद्धिमान् लोग (इन्द्रस्य) अत्यन्त ऐश्वर्य से युक्त परमात्मा की (सख्यम्) मित्रता को (सम्, आनशुः) उत्तम प्रकार प्राप्त होवैं तथा जिस (मनोः) मनन करनेवाले का (नपातः) नहीं गिरना होता उसके लिये (अपसः) कर्मों को (दधन्विरे) धारण करते हैं वे (सौधन्वनासः) उत्तमज्ञान के युक्त करनेवाले (शमीभिः) कर्मों के साथ (विष्ट्वी) कर्म को करके (सुकृत्यया) धर्म की क्रिया से (सुकृतः) उत्तमकर्म करनेवाले होते हुए (अमृतत्वम्) मोक्षपदवी को (आ, ईरिरे) प्राप्त होते हैं ॥३॥

    भावार्थ

    जो लोग परमेश्वर में प्रीति और उसकी आज्ञा के भङ्ग होने से भय तथा धर्म का आचरण करते हैं, वे ही मोक्ष पदवी को प्राप्त होते हैं ॥३॥

    मराठी (1)

    भावार्थ

    जे लोक परमेश्वरावर प्रेम करतात व त्याच्या आज्ञा भंग झाल्यास भय बाळगतात व धर्माचे आचरण करतात तेच मोक्ष प्राप्त करतात. ॥ ३ ॥

    इंग्लिश (1)

    Meaning

    Men of intelligence, wisdom and vision, enjoy the love and friendship of Indra, lord omnipotent of the world. They perform actions worthy of the son of infallible man. Warriors of the bow, dedicated to noble action with good intention and righteous resolution, doing acts of goodness leading to peace and joy, attain the state of immortality.

    Top