ऋग्वेद - मण्डल 5/ सूक्त 44/ मन्त्र 10
ऋषिः - अवत्सारः काश्यप अन्ये च दृष्टलिङ्गाः
देवता - विश्वेदेवा:
छन्दः - जगती
स्वरः - निषादः
सहि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः॑। अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्य॑म् ॥१०॥
स्वर सहित पद पाठसः । हि । क्ष॒त्रस्य॑ । म॒न॒सस्य॑ । चित्ति॑ऽभिः । ए॒व॒ऽव॒दस्य॑ । य॒ज॒तस्य॑ । सध्रेः॑ । अ॒व॒ऽत्सा॒रस्य॑ । स्पृ॒ण॒वा॒म॒ । रण्व॑ऽभिः । शवि॑ष्ठम् । वाज॑म् । वि॒दुषा॑ । चि॒त् । अर्ध्य॑म् ॥
स्वर रहित मन्त्र
सहि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः। अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यम् ॥१०॥
स्वर रहित पद पाठसः। हि। क्षत्रस्य। मनसस्य। चित्तिऽभिः। एवऽवदस्य। यजतस्य। सध्रेः। अवऽत्सारस्य। स्पृणवाम। रण्वऽभिः। शविष्ठम्। वाजम्। विदुषा। चित्। अर्ध्यम् ॥१०॥
ऋग्वेद - मण्डल » 5; सूक्त » 44; मन्त्र » 10
अष्टक » 4; अध्याय » 2; वर्ग » 24; मन्त्र » 5
Acknowledgment
अष्टक » 4; अध्याय » 2; वर्ग » 24; मन्त्र » 5
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह ॥
अन्वयः
हे मनुष्याश्चित्तिभिर्यस्यैवावदस्य यजतस्याऽवत्सारस्य मनसस्य सध्रेः क्षत्रस्य सम्बन्धं स्पृणवाम विदुषा चिदर्ध्यं रण्वभिः शविष्ठं वाजं स्पृणवाम स ह्यस्मान् स्पृहेत् ॥१०॥
पदार्थः
(सः) (हि) (क्षत्रस्य) राजकुलस्य राष्ट्रस्य वा (मनसस्य) यन्मन्यते तस्य (चित्तिभिः) चयनक्रियाभिः (एवावदस्य) एवान् प्राप्तान् गुणान् वदन्ति येन तस्य (यजतस्य) यजन्ति सङ्गच्छन्ते येन तस्य (सध्रेः) सहस्थानस्य (अवत्सारस्य) योऽवतो रक्षकान् सरति प्राप्नोति तस्य (स्पृणवाम) अभीच्छेम (रण्वभिः) रमणीयैः (शविष्ठम्) अतिशयेन बलिष्ठम् (वाजम्) विज्ञानवन्तम् (विदुषा) (चित्) (अर्ध्यम्) अर्द्धे भवम् ॥१०॥
भावार्थः
ये मनुष्या अहर्निशं राज्योन्नतिं चिकीर्षन्ति ते महाराजा जायन्ते ॥१०॥
हिन्दी (1)
विषय
फिर उसी विषय को कहते हैं ॥
पदार्थ
हे मनुष्यो ! (चित्तिभिः) इकट्ठे करनेरूप क्रियाओं से जिस (एवावदस्य) एवावद अर्थात् प्राप्त गुणों को कहते हैं जिससे वा (यजतस्य) मिलते हैं जिससे वा जो (अवत्सारस्य) रक्षकों को प्राप्त होते और (मनसस्य) माना जाता और उस (सध्रेः) तुल्य स्थानवाले (क्षत्रस्य) राजकुल वा राज्य के सम्बन्ध की (स्पृणवाम) इच्छा करें तथा (विदुषा) विद्वान् से (चित्) भी (अर्ध्यम्) अर्द्ध में उत्पन्न की तथा (रण्वभिः) रमणीयों से (शविष्ठम्) अत्यन्त बलिष्ठ (वाजम्) विज्ञानवान् की हम इच्छा करें (स, हि) वही हम लोगों की इच्छा करे ॥१०॥
भावार्थ
जो मनुष्य दिन-रात्रि राज्य की उन्नति करने की इच्छा करते हैं, वे महाराज होते हैं ॥१०॥
मराठी (1)
भावार्थ
जी माणसे रात्रंदिवस राज्याच्या उन्नतीची इच्छा करतात ती महाराज (महत) असतात. ॥ १० ॥
इंग्लिश (1)
Meaning
With our collective thoughts and intentions and with all our love and delight, we desire to have that ruler for the social order whose high strength and dynamism is respected by the wise and enlightened scholars, who is a strong disciplinarian and organiser, who commands intelligence and eloquence, who is a holy and cooperative man of yajna, sociable as a friend and who can preserve, protect, defend, promote and enlighten the people and the system. Only such a person deserves to be the ruler.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal