ऋग्वेद मण्डल - 7 के सूक्त 62 के मन्त्र
1 2 3 4 5 6
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 62/ मन्त्र 1
    ऋषि: - वसिष्ठः देवता - सूर्यः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् । स॒मो दि॒वा द॑दृशे॒ रोच॑मान॒: क्रत्वा॑ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥

    स्वर सहित पद पाठ

    उत् । सू॒र्यः॑ । बृ॒हत् । अ॒र्चींषि॑ । अ॒श्रे॒त् । पु॒रु । विश्वा॑ । जनि॑म । मानु॑षाणाम् । स॒मः । दि॒वा । द॒दृ॒शे॒ । रोच॑मानः । क्रत्वा॑ । कृ॒तः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥


    स्वर रहित मन्त्र

    उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम् । समो दिवा ददृशे रोचमान: क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ॥

    स्वर रहित पद पाठ

    उत् । सूर्यः । बृहत् । अर्चींषि । अश्रेत् । पुरु । विश्वा । जनिम । मानुषाणाम् । समः । दिवा । ददृशे । रोचमानः । क्रत्वा । कृतः । सुऽकृतः । कर्तृऽभिः । भूत् ॥ ७.६२.१

    ऋग्वेद - मण्डल » 7; सूक्त » 62; मन्त्र » 1
    अष्टक » 5; अध्याय » 5; वर्ग » 4; मन्त्र » 1

    पदार्थ -
    (सूर्य्यः) सबके उत्पादक परमात्मा का (बृहत्, अर्चींषि) बड़ी ज्योतियाँ (अश्रेत्) आश्रय करती हैं, जो (विश्वा, मानुषाणाम्) निखिल ब्रह्माण्ड में स्थित मनुष्यों के (पुरु, जनिम) अनन्त जन्मों को (ददृशे) जानता और (समः, दिवा) सदा ही (रोचमानः) स्वतःप्रकाश है, वही (क्रत्वा कृतः) यज्ञरूप है और (कर्तृभिः) इस चराचर ब्रह्माण्ड की रचना ने जिसको (सुकृतः, भूतः) सर्वोपरि रचयिता वर्णन किया है ॥१॥

    भावार्थ -
    हे मनुष्यो ! तुम उसी एकमात्र परमात्मा का आश्रयण करो, जो सब मनुष्यों के भूत, भविष्यत् तथा वर्त्तमान जन्मों को जानता, सदा एकरस रहता और जिसको इस चराचर ब्रह्माण्ड की रचना प्रतिदिन वर्णन करती है, वही स्वतःप्रकाश परमात्मा मनुष्यमात्र का उपास्यदेव है, इसी भाव से “सूर्य आत्मा जगतस्तस्थुषश्च” यजु. १३।४६ में परमात्मा का सूर्य्य नाम से वर्णन किया है ॥१॥

    पदार्थः -
    (सूर्य्यः) सरति=सर्वं व्याप्नोतीति सूर्यः अथवा सुवति= सर्वं जनयतीति सूर्य्यः=सर्वजगदुत्पादकः परमात्मा (बृहत्, अर्चींषि) बहूनि तेजांसि (उत्, अश्रेत्) धारयति, अन्यच्च (मानुषाणाम्) मनुष्याणां (पुरु, विश्वा, जनिम) अनन्तजन्मानि कृतवान् अन्यच्च (समः, दिवा) सदैव (रोचमानः) प्रकाशमानः (ददृशे) दृष्टिगतो भवति, कीदृशः स सूर्य्यः (कर्त्तृभिः) स्तुतिकर्त्तृभिः (सुकृतः) सर्वोपरि वर्णितः (क्रत्वा, कृतः, भूत्) यज्ञरूपोऽस्ति ॥१॥

    भावार्थः -
    हे मनुष्याः ! भवद्भिः सर्वप्रकाशकः परमात्मा उपासनीयः, यश्च भूतभविष्यद्वर्तमानकालत्रयस्य वेत्ता सदैकरसः, उत्पत्तिविनाशशून्य इत्यर्थः, यस्य वर्णनं नानाविधरचनया मुक्तकण्ठमहर्निशं क्रियते स परमात्मा भवतामुपास्यदेवः, अयमेव भावः "सूर्य आत्मा जगतस्तस्थुषश्च" यजु० १३।४६ अस्मिन्मन्त्रे वर्णितः। सूर्यः=सर्वप्रकाशकः जगतः =जङ्गमस्य, तस्थुषः=स्थावरस्य च आत्मा स्वामीत्यर्थः, येषां तु भौतिकसूर्य्य एव उपास्यदेवोऽत्राभिमतः तैः "सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्" ऋग्० १०।१९०।३ "चक्षोः सूर्यो अजायत" यजु० ३१।१२ इत्यादि मन्त्रेभ्य इयमेव शिक्षा ग्राह्या यत् यत्र यत्र सूर्य्यशब्दस्य कार्य्यवाचित्वं तत्र तत्रैव भौतिकसूर्य्याभिधायित्वं नान्यत्रेति ॥ अत्रेदमेव तात्पर्यं यत् कार्य्यवाची सूर्य्यशब्दः भौतिकसूर्य्यस्य वाचकः, कारणवाची सूर्य्यशब्दस्तु परमात्मन एव वाचकः, नान्यस्येति, एतच्च "तमेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः" यजु० ३२।१ इत्यादिषु स्फुटमेव, इत्यादिभिः हेतुभिरत्र सूर्य्यनाम्ना परमात्मन एव ग्रहणं नान्यस्य ॥१॥

    Meaning -
    The cosmic Sun, self refulgent life of the universe, rises and radiates his vast and mighty abundant rays of light, constantly shining day and night and revealing the birth and evolution of all people of the world. Sung and celebrated, adored and worshipped by holy performers of yajna, he himself is the cosmic yajna by virtue of his manifestive creation, the supreme yajamana as well as the presiding Deity.

    Top