Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 75 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 75/ मन्त्र 2
    ऋषिः - परुच्छेपः देवता - इन्द्रः छन्दः - अत्यष्टिः सूक्तम् - सूक्त-७५
    25

    वि॒दुष्टे॑ अ॒स्य वी॒र्यस्य पू॒रवः॒ पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः। शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते। म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥

    स्वर सहित पद पाठ

    वि॒दु: । ते॒ । अ॒स्य । वी॒र्यस्य॑ । पू॒रव॑: । पुर॑: । यत् । इ॒न्द्र॒ । शार॑दी: । अ॒व॒ऽअति॑र: । स॒स॒हा॒न: । अ॒व॒ऽअति॑र: ॥ स॒स॒हा॒न: । अ॒व॒ऽअति॑र: ॥ शास॑: । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अय॑ज्युम् । श॒व॒स॒: । प॒ते॒ ॥ म॒हीम् । अ॒मु॒ष्णा॒: । पृ॒थि॒वीम् । इ॒मा: । अ॒प: । म॒न्द॒सा॒न: । इ॒मा: । अ॒प: ॥७५.२॥

    स्वर रहित मन्त्र

    विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः। शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते। महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥

    स्वर रहित पद पाठ

    विदु: । ते । अस्य । वीर्यस्य । पूरव: । पुर: । यत् । इन्द्र । शारदी: । अवऽअतिर: । ससहान: । अवऽअतिर: ॥ ससहान: । अवऽअतिर: ॥ शास: । तम् । इन्द्र । मर्त्यम् । अयज्युम् । शवस: । पते ॥ महीम् । अमुष्णा: । पृथिवीम् । इमा: । अप: । मन्दसान: । इमा: । अप: ॥७५.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 75; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    परमेश्वर की उपासना का उपदेश।

    पदार्थ

    (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमेश्वर] (पूरवः) मनुष्य (ते) तेरे (अस्य) उस (वीर्यस्य) सामर्थ्य का (विदुः) ज्ञान रखते हैं, (यत्) जिस [सामर्थ्य] से (सासहानः) जीतते हुए तूने (शारदीः) वर्ष भर में उत्पन्न होनेवाली (पुरः) पालनसामग्रियों को (अवातिरः) उतारा है, (अवातिरः) उतारा है, (शवसःपते) हे बल के स्वामी (इन्द्र) इन्द्र ! [परमेश्वर] (तम्) उस (अयज्युम्) यज्ञ के न करनेवाले (मर्त्यम्) मनुष्य को (शासः) तूने शासन में किया है, और (मन्दसानः) आनन्द करते हुए तूने (महीम्) बड़ी (पृथिवीम्) पृथिवी से (इमाः) इन [यज्ञ न करनेवाली] (अपः) प्रजाओं को, (इमाः) इन (अपः) प्रजाओं को (अमुष्णाः) लूटा है ॥२॥

    भावार्थ

    परमात्मा अपने सामर्थ्य से अनन्त पदार्थ उत्पन्न करके सबका सदा पालन करता है, और अनाज्ञाकारी दुष्टों को अवश्य दण्ड देता है ॥२॥

    टिप्पणी

    २−(विदुः) विदन्ति। ज्ञानं कुर्वन्ति (ते) तव (अस्य) प्रसिद्धस्य (वीर्यस्य) सामर्थ्यस्य (पूरवः) भृमृशीङ्०। उ० १।७। पूरी आप्यायने-उप्रत्ययः। पूरवः पूरयितव्या मनुष्याः-निरु० ७।२३। मनुष्याः-निघ० २।३। (पुरः) पॄ पालनपूरणयोः-क्विप्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। इत्युत्वम्। पालनसामग्रीः (यत्) येन सामर्थ्येन (इन्द्र) परमैश्वर्यवन् परमात्मन् (शारदीः) शरद्-अण्, ङीप्। शरदि संवत्सरे भवाः (अवातिरः) अवतारितवानसि। दत्तवानसि (सासहानः) सहतेर्यङ्लुगन्ताच् चानश्। अभिभवन्। विजयन् (अवातिरः) दत्तवानसि (शासः) शासु अनुशिष्टौ-लुङ्, छान्दसं रूपम्। शासितवानसि। निगृहीतवानसि (तम्) (इन्द्र) (मर्त्यम्) मनुष्यम् (अयज्युम्) यजिमनिशुन्धि०। उ० ३।२०। यजेः-युच्। अयष्टारम्। यज्ञविघातकम् (शवसः) बलस्य (पते) स्वामिन् (महीम्) महतीम् (अमुष्णाः) मुष स्तेये-लङ्। अपहृतवानसि। दुह्याच्पच्दण्डरुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्। कारिका, पा० १।४।१। इति मुष्णातेर्द्विकर्मकत्वात् पृथिवीमित्यस्य, अप इति अस्य पदस्य च कर्मकत्वम् (पृथिवीम्) भूमिम्। भूमेः सकाशात् (इमाः) दृश्यमानाः (अपः) प्रजाः (मन्दसानः) हृष्यन् त्वम् (इमाः) (अपः) प्रजाः ॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Subject

    Indra Devata

    Meaning

    Indra, lord of power and management, the people would know and realise your usual power and valour when you, bold and challenging, would overcome the autumnal and wintry problems of life and society, reclaim the habitations, control the rivers, and restore total civic normalcy after rains, when, O lord of law and power, you tame the man who is selfish, possessive, uncreative, uncooperative and unyajnic, and when, happy at heart and creating the pleasure and joy of life, you release the great earth, release these waters and relieve these creative and cooperative people.

    इस भाष्य को एडिट करें

    Translation

    O Almighty Divinity, people know of this power of yours through which you conquering break the bodies which are calculated by the measurement of autumns and you really break the worldly forests which are subjected to years passing through autumns. O Lord of power punish the man who does not perform Yajnas and is deprived of good acts and understanding. O Divine Spirit, you with spirit of delight take in to your fold (in dissolution) this grand earth and waters, may even these subjects and worlds.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top