अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 51/ मन्त्र 2
आपो॑ अ॒स्मान्मा॒तरः॑ सूदयन्तु घृ॒तेन॑ नो घृत॒प्वः पुनन्तु। विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥
स्वर सहित पद पाठआप॑: । अ॒स्मान् । मा॒तर॑: । सू॒द॒य॒न्तु॒ । घृ॒तेन॑ । न॒: । घृ॒त॒ऽप्व᳡: । पु॒न॒न्तु॒ । विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वी: । उत्। इत् । आ॒भ्य॒: । शुचि॑: । आ । पू॒त: । ए॒मि॒ ॥५१.२॥
स्वर रहित मन्त्र
आपो अस्मान्मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु। विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥
स्वर रहित पद पाठआप: । अस्मान् । मातर: । सूदयन्तु । घृतेन । न: । घृतऽप्व: । पुनन्तु । विश्वम् । हि । रिप्रम् । प्रऽवहन्ति । देवी: । उत्। इत् । आभ्य: । शुचि: । आ । पूत: । एमि ॥५१.२॥
भाष्य भाग
हिन्दी (1)
विषय
द्रोह के नाश का उपदेश।
पदार्थ
(मातरः) माता के समान पालन करनेवाले (आपः) जल (अस्मान्) हम को (सूदयन्तु) सींचें, (घृतप्वः) घृतको पवित्र करनेवाले [जल] (घृतेन) घृत से (नः) हमको (पुनन्तु) पवित्र करें। (देवीः) दिव्यगुणयुक्त जल (विश्वम्) सब (हि) ही (रिप्रम्) मल को (प्रवहन्ति) बहा देते हैं, (आभ्यः) इन जलों से (इत्) ही (शुचिः) शुद्ध और (आ पूतः) सर्वथा पवित्र होकर (उत् एमि) मैं ऊँचा चलता हूँ ॥२॥
भावार्थ
जैसे जल अन्न आदि पदार्थ उत्पन्न करके मलों को शुद्ध करके और अनेक शिल्पों में प्रयुक्त होकर उपकार होते हैं, वैसे ही मनुष्य विद्या आदि शुभ गुण प्राप्त करके परस्पर उपकार करके उदय को प्राप्त हों ॥२॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−अ० ४।२ ॥
टिप्पणी
२−(आपः) जलानि (अस्मान्) मनुष्यादीन् (मातरः) मातृवत्पालिकाः (सूदयन्तु) षूद क्षरणे। सिञ्चन्तु। शुन्धयन्तु (घृतेन) आज्येन (नः) अस्मान् (घृतप्वः) घृत+पूञ् पवने−क्विप्। घृतं पुनन्ति यास्ता आपः (पुनन्तु) पवित्रयन्तु (विश्वम्) सर्वम् (हि) खलु (रिप्रम्) लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः। उ० ५।५५। इति रीङ् श्रवणे−र प्रत्ययः, ह्रस्वः पुट् च। रपो रिप्रमिति पापनामनी भवतः−निरु० ४।२१। कुत्सितं मलम् (प्रवहन्ति) प्रकर्षेण क्षालयन्ति, अपगमयन्ति (देवीः) देव्यः। दिव्यगुणयुक्ताः (उत्) उदित्य (इत्) एव (आभ्यः) अद्भ्यः (शुचिः) शुद्धः (आ) समन्तात् (पूतः) पवित्रः (एमि) गच्छामि ॥
इंग्लिश (1)
Subject
Purity and Power
Meaning
Let the holy waters, sacred as mother powers, cleanse, chasten and fortify us. They are pure, they may sanctify us with the purity of piety and refinement. They wash away the dirt and evil of the world, they being divine. Purified, sanctified and consecrated by these, I go on forward, higher and higher.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
२−(आपः) जलानि (अस्मान्) मनुष्यादीन् (मातरः) मातृवत्पालिकाः (सूदयन्तु) षूद क्षरणे। सिञ्चन्तु। शुन्धयन्तु (घृतेन) आज्येन (नः) अस्मान् (घृतप्वः) घृत+पूञ् पवने−क्विप्। घृतं पुनन्ति यास्ता आपः (पुनन्तु) पवित्रयन्तु (विश्वम्) सर्वम् (हि) खलु (रिप्रम्) लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः। उ० ५।५५। इति रीङ् श्रवणे−र प्रत्ययः, ह्रस्वः पुट् च। रपो रिप्रमिति पापनामनी भवतः−निरु० ४।२१। कुत्सितं मलम् (प्रवहन्ति) प्रकर्षेण क्षालयन्ति, अपगमयन्ति (देवीः) देव्यः। दिव्यगुणयुक्ताः (उत्) उदित्य (इत्) एव (आभ्यः) अद्भ्यः (शुचिः) शुद्धः (आ) समन्तात् (पूतः) पवित्रः (एमि) गच्छामि ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal