अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 61/ मन्त्र 2
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - विश्वस्रष्टा सूक्त
68
अ॒हं वि॑वेच पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सा॒कम्। अ॒हं स॒त्यमनृ॑तं॒ यद्वदा॑म्य॒हं दैवीं॒ परि॒ वाचं॒ विश॑श्च ॥
स्वर सहित पद पाठअ॒हम् । वि॒वे॒च॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । अ॒हम् । ऋ॒तन् । अ॒ज॒न॒य॒म् । स॒प्त । सा॒कम् । अ॒हम् । स॒त्यम् । अनृ॑तम् । यत् । वदा॑मि । अ॒हम् । दैवी॑म् । परि॑ । वाच॑म् । विश॑: । च॒॥६१.२॥
स्वर रहित मन्त्र
अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम्। अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥
स्वर रहित पद पाठअहम् । विवेच । पृथिवीम् । उत । द्याम् । अहम् । ऋतन् । अजनयम् । सप्त । साकम् । अहम् । सत्यम् । अनृतम् । यत् । वदामि । अहम् । दैवीम् । परि । वाचम् । विश: । च॥६१.२॥
भाष्य भाग
हिन्दी (1)
विषय
परमेश्वर की महिमा का उपदेश।
पदार्थ
(अहम्) मैंने (पृथिवीम्) पृथिवी (उत) और (द्याम्) सूर्य को (विवेच) पृथक्-पृथक् किया, (अहम्) मैंने (सप्त) सात (ऋतून्) व्यापनशील [त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि] को (साकम्) आपस में मिला हुआ (अजनयम्) उत्पन्न किया है। (अहम्) मैं (यत्) जो कुछ (सत्यम्) सत्य और (अनृतम्) झूठ है [उसे] (च) और (अहम्) मैं (देवीम्) विद्वानों में होनेवाली (वाचम्) वाणी को (विशः परि) सब मनुष्यों में भरपूर (वदामि) बताता हूँ ॥२॥
भावार्थ
परमेश्वर ने पृथिवी सूर्य आदि पदार्थों को रचकर सत्य का विधान और असत्य का निषेध वेद द्वारा सब प्राणियों को बताया है ॥२॥
टिप्पणी
२−(अहम्) परमेश्वरः (विवेच) विचिर् पृथग्भावे−लिट्। पृथक् पृथक् कृतवान् (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) सूर्यलोकम् (अहम्) (ऋतून्) अर्तेश्च−तुः। उ० १।७२। इति ऋ गतौ−तु, स च कित्। ऋतुरर्तेर्गतिकर्मणः−निरु० २।२५। ऋषयः षडिन्द्रियाणि विद्या सप्तमी−निरु० १२।३७। सप्त ऋषीन्। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धिरूपान् (अजनयम्) उत्पादितवानस्मि (साकम्) सह परस्परं संहतान् (अहम्) (सत्यम्) यथार्थम् (अनृतम्) (यत्) यत् किञ्चित् तदपि (वदामि) कथयामि विधिनिषेधरूपेण (अहम्) (दैवीम्) देव−अञ्। विद्वत्सु भवाम् (परि) परीत्य व्याप्य (वाचाम्) वेदवाणीम् (विशः) मनुष्यान् निघ० २।३। (च) समुच्चये ॥
इंग्लिश (1)
Subject
The Lord Supreme
Meaning
I separate the earth and the solar region; I create the seven united flows of Nature: five elements and the two orders of sense, i. e., senses of perception and action; seven orders of the worlds of the universe from Bhu to Satyam; seven seasons; seven lights of the sun, seven orders of wind and rain, and the seven seas. I speak of what is true and of what is not true and the eternal Word of the Veda for all people of the world.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
२−(अहम्) परमेश्वरः (विवेच) विचिर् पृथग्भावे−लिट्। पृथक् पृथक् कृतवान् (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) सूर्यलोकम् (अहम्) (ऋतून्) अर्तेश्च−तुः। उ० १।७२। इति ऋ गतौ−तु, स च कित्। ऋतुरर्तेर्गतिकर्मणः−निरु० २।२५। ऋषयः षडिन्द्रियाणि विद्या सप्तमी−निरु० १२।३७। सप्त ऋषीन्। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धिरूपान् (अजनयम्) उत्पादितवानस्मि (साकम्) सह परस्परं संहतान् (अहम्) (सत्यम्) यथार्थम् (अनृतम्) (यत्) यत् किञ्चित् तदपि (वदामि) कथयामि विधिनिषेधरूपेण (अहम्) (दैवीम्) देव−अञ्। विद्वत्सु भवाम् (परि) परीत्य व्याप्य (वाचाम्) वेदवाणीम् (विशः) मनुष्यान् निघ० २।३। (च) समुच्चये ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal