Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1485
ऋषिः - बृहद्दिव आथर्वणः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
1

त्वे꣢꣫ क्रतु꣣म꣡पि꣢ वृञ्जन्ति꣣ वि꣢श्वे꣣ द्वि꣢꣫र्यदे꣣ते꣢꣫ त्रिर्भव꣣न्त्यू꣡माः꣢ । स्वा꣣दोः꣡ स्वादी꣢꣯यः स्वा꣣दु꣡ना꣢ सृजा꣣ स꣢म꣣दः꣢꣫ सु मधु꣣ म꣡धु꣢ना꣣भि꣡ यो꣢धीः ॥१४८५॥

स्वर सहित पद पाठ

त्वे꣡इति꣢ । क्र꣡तु꣢꣯म् । अ꣡पि꣢꣯ । वृ꣣ञ्जन्ति । वि꣡श्वे꣢꣯ । द्विः । यत् । ए꣣ते꣢ । त्रिः । भ꣡व꣢꣯न्ति । ऊ꣡माः꣢꣯ । स्वा꣣दोः꣢ । स्वा꣡दी꣢꣯यः । स्वा꣣दु꣡ना꣢ । सृ꣣ज । स꣢म् । अ꣣दः꣢ । सु । म꣡धु꣢꣯ । म꣡धु꣢꣯ना । अ꣣भि꣢ । यो꣣धीः ॥१४८५॥


स्वर रहित मन्त्र

त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः । स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥१४८५॥


स्वर रहित पद पाठ

त्वेइति । क्रतुम् । अपि । वृञ्जन्ति । विश्वे । द्विः । यत् । एते । त्रिः । भवन्ति । ऊमाः । स्वादोः । स्वादीयः । स्वादुना । सृज । सम् । अदः । सु । मधु । मधुना । अभि । योधीः ॥१४८५॥

सामवेद - मन्त्र संख्या : 1485
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment

भावार्थ - एक जन्म माता-पिता यांच्याकडून व दूसरा जन्म आचार्याकडून प्राप्त करून मनुष्य द्विज बनतो व जो गृहस्थाश्रमात प्रवेश करून संतान उत्पन्न करतो, तो त्याचा तृतीय जन्म असतो कारण पिता स्वत: पुत्राच्या रूपात जन्म घेतो. (निरुक्त ३।४) हे शास्त्र वचन आहे. जे द्विज किंवा त्रिज महापुरुष असतात. ते परमेश्वरातच आपले सर्वस्व अर्पण करतात व परमेश्वर त्यांच्यासाठी अत्यंत मधुर आपला आनंद-रस प्रवाहित करतो. ॥३॥

इस भाष्य को एडिट करें
Top