अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 6
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम्। प॑रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ॥
स्वर सहित पद पाठस्वप्न॑म् । सु॒प्त्वा । यदि॑ । पश्या॑सि । पा॒पम् । मृ॒ग: । सृ॒तिम् । यति॑ । धावा॑त् । अजु॑ष्टाम् । प॒रि॒ऽक्ष॒वात् । श॒कुने॑: । पा॒प॒ऽवा॒दात् । अ॒यम् । म॒णि: । व॒र॒ण: । वा॒र॒यि॒ष्य॒ते॒ ॥३.६॥
स्वर रहित मन्त्र
स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम्। परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥
स्वर रहित पद पाठस्वप्नम् । सुप्त्वा । यदि । पश्यासि । पापम् । मृग: । सृतिम् । यति । धावात् । अजुष्टाम् । परिऽक्षवात् । शकुने: । पापऽवादात् । अयम् । मणि: । वरण: । वारयिष्यते ॥३.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 6
Translation -
If in your sleep you see bad dream, O man! if the beast causes intolerable bad nausea this Varana plant will guard you and deliver you from sneeze and the misery of which the bird’s (Owl’s) speech is a fore-runner,