अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 6
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुप्ककुम्मतीगर्भातिजगती
सूक्तम् - अजरक्षत्र
उद्ध॑र्षन्तां मघव॒न्वाजि॑ना॒न्युद्वी॒राणां॒ जय॑तामेतु॒ घोषः॑। पृथ॒ग्घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्। दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥
स्वर सहित पद पाठउत् । ह॒र्ष॒न्ता॒म् । म॒घ॒ऽव॒न् । वाजि॑नानि । उत् । वी॒राणा॑म् । जय॑ताम् । ए॒तु॒ । घोष॑: ।पृथ॑क् ।घोषा॑: । उ॒लु॒लय॑: । के॒तु॒ऽमन्त॑: । उत् । ई॒र॒ता॒म् । दे॒वा: । इन्द्र॑ऽज्येष्ठा: । म॒रुत॑: । य॒न्तु॒ । सेन॑या ॥१९.६॥
स्वर रहित मन्त्र
उद्धर्षन्तां मघवन्वाजिनान्युद्वीराणां जयतामेतु घोषः। पृथग्घोषा उलुलयः केतुमन्त उदीरताम्। देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥
स्वर रहित पद पाठउत् । हर्षन्ताम् । मघऽवन् । वाजिनानि । उत् । वीराणाम् । जयताम् । एतु । घोष: ।पृथक् ।घोषा: । उलुलय: । केतुऽमन्त: । उत् । ईरताम् । देवा: । इन्द्रऽज्येष्ठा: । मरुत: । यन्तु । सेनया ॥१९.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 6
Translation -
O mighty King, let the power of army and morale of the people be laudable and high, let the shout of conquering heroes rise upward, let shout, shriek and cry with the flags of army men rise up, let the official under the super-ordination of the king and the army personels with army go to battle field.