अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 6
सूक्त - अथर्वा
देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
छन्दः - जगती
सूक्तम् - राष्ट्रदेवी सुक्त
अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म्। अ॒हं द॑धामि॒ द्रवि॑णा ह॒विष्म॑ते सुप्रा॒व्या॑ यज॑मानाय सुन्व॒ते ॥
स्वर सहित पद पाठअ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् । अ॒हम् । द॒धा॒मि॒ । द्रवि॑णा । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्या᳡ । यज॑मानाय । सु॒न्व॒ते ॥३०.६॥
स्वर रहित मन्त्र
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्। अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥
स्वर रहित पद पाठअहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् । अहम् । दधामि । द्रविणा । हविष्मते । सुप्रऽअव्या । यजमानाय । सुन्वते ॥३०.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 6
Translation -
I maintain the unalienable supremacy of the people, I keep under my control Tvastar, the fire, I have my Control over Pushan, the air and Bhaga, the fortune. I give the pleasure giving wealth to the performer of Yajna, who offers oblation, and pours out juice of Soma.