अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 5
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - अमृता सूक्त
तदू॒ षु ते॑ म॒हत्पृ॑थुज्म॒न्नमः॑ क॒विः काव्ये॑ना कृणोमि। यत्स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ॥
स्वर सहित पद पाठतत् । ऊं॒ इति॑ । सु । ते॒ । म॒हत् । पृ॒थु॒ऽज्म॒न् । नम॑: । क॒वि: । काव्ये॑न । कृ॒णो॒मि । यत् । स॒म्यञ्चौ॑ । अ॒भि॒ऽयन्तौ॑ । अ॒भि । क्षाम् । अत्र॑ ।म॒ही इति॑ । रोध॑चक्रे॒ इति॒ रोध॑ऽचक्रे । व॒वृ॒धेते॒ इति॑॥१.५॥
स्वर रहित मन्त्र
तदू षु ते महत्पृथुज्मन्नमः कविः काव्येना कृणोमि। यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥
स्वर रहित पद पाठतत् । ऊं इति । सु । ते । महत् । पृथुऽज्मन् । नम: । कवि: । काव्येन । कृणोमि । यत् । सम्यञ्चौ । अभिऽयन्तौ । अभि । क्षाम् । अत्र ।मही इति । रोधचक्रे इति रोधऽचक्रे । ववृधेते इति॥१.५॥
अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 5
Translation -
O Almighty God! that is Thy great excellence which I the eulogizer understand and praise through the Vedic speech. I do this so that the two grand globes—these sun and earth having the same duration and moving ever become the source of my growth on this earth.