अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
परा॒मित्रा॑न्दुन्दु॒भिना॑ हरि॒णस्या॒जिने॑न च। सर्वे॑ दे॒वा अ॑तित्रस॒न्ये सं॑ग्रा॒मस्येश॑ते ॥
स्वर सहित पद पाठपरा॑ । अ॒मित्रा॑न् । दु॒न्दु॒भिना॑ । ह॒रि॒णस्य॑ । अ॒जिने॑न । च॒ । सर्वे॑ । दे॒वा: । अ॒ति॒त्र॒स॒न् । ये । स॒म्ऽग्रा॒मस्य॑ । ईश॑ते ॥२१.७॥
स्वर रहित मन्त्र
परामित्रान्दुन्दुभिना हरिणस्याजिनेन च। सर्वे देवा अतित्रसन्ये संग्रामस्येशते ॥
स्वर रहित पद पाठपरा । अमित्रान् । दुन्दुभिना । हरिणस्य । अजिनेन । च । सर्वे । देवा: । अतित्रसन् । ये । सम्ऽग्रामस्य । ईशते ॥२१.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 7
Translation -
The men of wondrous power who control the affairs of battle frighten away enemies with the war-drum which is made from the skin of dear.