Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 71/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - अन्न सूक्त
यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑। वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ॥
स्वर सहित पद पाठयत् । अन्न॑म् । अद्मि॑ । अनृ॑तेन । दे॒वा॒: । दा॒स्यन् । अदा॑स्यन् । उ॒त । स॒म्ऽगृ॒णामि॑ । वै॒श्वा॒न॒रस्य॑ । म॒ह॒त: । म॒हि॒म्ना । शि॒वम् । मह्य॑म् । मधु॑ऽमत् । अ॒स्तु॒ । अन्न॑म् ॥७१.३॥
स्वर रहित मन्त्र
यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत संगृणामि। वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥
स्वर रहित पद पाठयत् । अन्नम् । अद्मि । अनृतेन । देवा: । दास्यन् । अदास्यन् । उत । सम्ऽगृणामि । वैश्वानरस्य । महत: । महिम्ना । शिवम् । मह्यम् । मधुऽमत् । अस्तु । अन्नम् ॥७१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 71; मन्त्र » 3
Translation -
O learned men! whatever food I sometimes eat neglecting the Jaw of nature, what food I eat giving to others and what food I swallow without giving to others may be sweet and blessed for me by the grace of great God who is the master of the all worldly creatures.