Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 16/ मन्त्र 1
सूक्त - भृगुः
देवता - सविता
छन्दः - त्रिष्टुप्
सूक्तम् - सविता प्रार्थना सूक्त
बृह॑स्पते॒ सवि॑तर्व॒र्धयै॑नं ज्यो॒तयै॑नं मह॒ते सौभ॑गाय। संशि॑तं चित्संत॒रं सं शि॑शाधि॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ॥
स्वर सहित पद पाठबृह॑स्पते । सवि॑त: । व॒र्धय॑ । ए॒न॒म् । ज्यो॒तय॑ । ए॒न॒म् । म॒ह॒ते । सौभ॑गाय । सम्ऽशि॑तम् । चि॒त् । स॒म्ऽत॒रम् । सम् । शि॒शा॒धि॒ । विश्वे॑ । ए॒न॒म् । अनु॑ । म॒द॒न्तु॒ । दे॒वा: ॥१७.१॥
स्वर रहित मन्त्र
बृहस्पते सवितर्वर्धयैनं ज्योतयैनं महते सौभगाय। संशितं चित्संतरं सं शिशाधि विश्व एनमनु मदन्तु देवाः ॥
स्वर रहित पद पाठबृहस्पते । सवित: । वर्धय । एनम् । ज्योतय । एनम् । महते । सौभगाय । सम्ऽशितम् । चित् । सम्ऽतरम् । सम् । शिशाधि । विश्वे । एनम् । अनु । मदन्तु । देवा: ॥१७.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 16; मन्त्र » 1
Translation -
O Lord of the Vedic speech and creator of the Creation or preceptor! make stronger this king or performer of the Yajna or the student and illuminate him for high and happy attainments. Sharpen further the sagacity of this sagacious one and let all the physical and spiritual forces accord him their favors.