अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 2
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
इ॒यं वी॒रुन्मधु॑जाता मधु॒श्चुन्म॑धु॒ला म॒धूः। सा विह्रु॑तस्य भेष॒ज्यथो॑ मशक॒जम्भ॑नी ॥
स्वर सहित पद पाठइ॒यम् । वी॒रुत् । मधु॑ऽजाता । म॒धु॒ऽश्चुत् । म॒धु॒ला । म॒धू: । सा । विऽह्रु॑तस्य । भे॒ष॒जी । अथो॒ इति॑ । म॒श॒क॒ऽजम्भ॑नी ॥५८.२॥
स्वर रहित मन्त्र
इयं वीरुन्मधुजाता मधुश्चुन्मधुला मधूः। सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥
स्वर रहित पद पाठइयम् । वीरुत् । मधुऽजाता । मधुऽश्चुत् । मधुला । मधू: । सा । विऽह्रुतस्य । भेषजी । अथो इति । मशकऽजम्भनी ॥५८.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 2
Translation -
This herb is born with sweet, it drops sweet, it is sweet in effect and it is as sweet as honey. This is the medicine of wound caused by the bite of venomous reptiles and this destroys the gnats etc.