Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 38/ मन्त्र 3
सूक्त - अथर्वा
देवता - बृहस्पतिः, त्विषिः
छन्दः - त्रिष्टुप्
सूक्तम् - वर्चस्य सूक्त
रथे॑ अ॒क्षेष्वृ॑ष॒भस्य॒ वाजे॒ वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑। इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना ॥
स्वर सहित पद पाठरथे॑ । अ॒क्षेषु॑ । ऋ॒ष॒भस्य॑ । वाजे॑ । वाते॑ । प॒र्जन्ये॑ । वरु॑णस्य । शुष्मे॑ । इन्द्र॑म् । या । दे॒वी । सु॒ऽभगा॑ । ज॒जान॑ ।सा । न॒: । आ । ए॒तु॒ । वर्च॑सा । स॒म्ऽवि॒दा॒ना ॥३८.३॥
स्वर रहित मन्त्र
रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे। इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥
स्वर रहित पद पाठरथे । अक्षेषु । ऋषभस्य । वाजे । वाते । पर्जन्ये । वरुणस्य । शुष्मे । इन्द्रम् । या । देवी । सुऽभगा । जजान ।सा । न: । आ । एतु । वर्चसा । सम्ऽविदाना ॥३८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 38; मन्त्र » 3
Translation -
Whatever might that exists in car, axles, in the strong bull's courage, in wind, in cloud, and in the warmth of the Sun, and the blessed spiritual force, that makes a man a king, may that come unto us conjoined with strength and vigor.