Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 1/ मन्त्र 32
    ऋषिः - आसङ्गः प्लायोगिः देवता - आसंङ्गस्य दानस्तुतिः छन्दः - आर्चीभुरिग्बृहती स्वरः - मध्यमः

    य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ । ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ॥

    स्वर सहित पद पाठ

    यः । ऋ॒ज्रा । मह्य॑म् । म॒म॒हे । स॒ह । त्व॒चा । हि॒र॒ण्यया॑ । ए॒षः । विश्वा॑नि । अ॒भि । अ॒स्तु॒ । सौभ॑गा । आ॒स॒ङ्गस्य॑ । स्व॒नत्ऽर॑थः ॥


    स्वर रहित मन्त्र

    य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया । एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥

    स्वर रहित पद पाठ

    यः । ऋज्रा । मह्यम् । ममहे । सह । त्वचा । हिरण्यया । एषः । विश्वानि । अभि । अस्तु । सौभगा । आसङ्गस्य । स्वनत्ऽरथः ॥ ८.१.३२

    ऋग्वेद - मण्डल » 8; सूक्त » 1; मन्त्र » 32
    अष्टक » 5; अध्याय » 7; वर्ग » 16; मन्त्र » 2

    पदार्थः -
    यः=खलु ईश्वरादन्यः कश्चिद्दाता । हिरण्यया=सुवर्णमय्या । त्वचा=चर्मणा । सह । बहुभिः सुवर्णैः सहितानीत्यर्थः । ऋज्रा=ऋजूनि, गमनशीलानि अस्थायीनि धनानि । मह्यम् । ममहे=ददाति । मंहतिर्दानकर्मा । स एष दाता पुरुषः । विश्वानि=समस्तानि । सौभगा=सौभगानि=सौभाग्यानि कल्याणानि । अभ्यस्तु=अभिभवतु=प्राप्नोतु यावत् । तथा तस्य आसङ्गस्य=अर्थिभिः सह यः सदा आसंगच्छते=संमिलितो भवति स आसङ्गः=परमदानी पुरुषः । तस्य । रथो रमणीयो रथादिः । स्वनत्=स्वनन्=सुवर्णमयैरायोजनैः सज्जीकृतः सन् सर्वदा शब्दायमानो भवतु । इत्याशास्महे परमात्मनः । यद्वा स्वनद्रथ इत्येकं पदम् । स एष आसङ्गस्य दातुरात्मा । स्वनद्रथः=शब्दायमानरथः सन् । सर्वाणि सौभगानि प्राप्नोत्वित्यर्थः ॥३२ ॥

    इस भाष्य को एडिट करें
    Top