ऋग्वेद - मण्डल 8/ सूक्त 1/ मन्त्र 33
ऋषिः - आसङ्गः प्लायोगिः
देवता - आसंङ्गस्य दानस्तुतिः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑स॒ङ्गो अ॑ग्ने द॒शभि॑: स॒हस्रै॑: । अधो॒क्षणो॒ दश॒ मह्यं॒ रुश॑न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥
स्वर सहित पद पाठअध॑ । प्लायो॑गिः । अति॑ । दा॒स॒त् । अ॒न्यान् । आ॒ऽस॒ङ्गः । अ॒ग्ने॒ । द॒शऽभिः॑ । स॒हस्रैः॑ । अध॑ । उ॒क्षणः॑ । दश॑ । मह्य॑म् । रुश॑न्तः । न॒ळाःऽइ॑व । सर॑सः । निः । अ॒ति॒ष्ठ॒न् ॥
स्वर रहित मन्त्र
अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभि: सहस्रै: । अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् ॥
स्वर रहित पद पाठअध । प्लायोगिः । अति । दासत् । अन्यान् । आऽसङ्गः । अग्ने । दशऽभिः । सहस्रैः । अध । उक्षणः । दश । मह्यम् । रुशन्तः । नळाःऽइव । सरसः । निः । अतिष्ठन् ॥ ८.१.३३
ऋग्वेद - मण्डल » 8; सूक्त » 1; मन्त्र » 33
अष्टक » 5; अध्याय » 7; वर्ग » 16; मन्त्र » 3
अष्टक » 5; अध्याय » 7; वर्ग » 16; मन्त्र » 3
विषयः - परमात्मा सर्वदानेभ्यः श्रेष्ठानि इन्द्रियादीनि दानानि ददातीत्यनया दर्शयति ।
पदार्थः -
हे अग्ने=सर्वव्यापक परमात्मन् ! त्वम् । अध=अथ । अन्यान्=सांसारिकान् दातॄन् । अति=अतिक्रम्य । दशभिः=दशगुणितैः । सहस्रैः=सहस्रसंख्याकैर्गुणैः= दानैर्युक्तः सन् । दासत्=दाससि । इन्द्रियाख्यान् अद्भुतान्=अनुपमान् पदार्थान् । मह्यं ददासीत्यर्थः । यैस्तुल्यानि नान्यानि दानानि भवितुमर्हन्ति । अत्र प्रथमपुरुषश्छान्दसः । कीदृशस्त्वम् । प्लायोगिः=प्रकर्षेण आसमन्तात् सर्वाणि वस्तूनि यो युनक्ति तस्मिन् तस्मिन् कार्य्ये योजयति स प्रायोगिः । रलयोः समानता । सर्वप्रयोगविदित्यर्थः । पुनः । आसङ्गः=स्वसृष्टेषु पदार्थेषु य आसङ्गतोऽस्ति । यद्यपि परमात्मा असङ्गोऽस्ति तथापि सर्वव्यापकत्वात् सर्वान्तर्य्यामित्वाद् आसङ्गोऽप्युच्यते । अध=अथ । तव प्रदत्ताः । रुशन्तो=देदीप्यमानाः । दश=दशसंख्याका ज्ञानकर्मेन्द्रियाख्याः । उक्षणः= सर्वकार्यसेचनसमर्थाः पदार्थाः । सरसः=तटाकाद् । नलाः इव=तटोद्भवास्तृणविशेषा इव । तव कृपया । अस्मात् शरीरात् । निरतिष्ठन्=निर्गत्य तिष्ठन्ति=प्रकाशन्ते । इयं तव महती कृपा महादानञ्च ॥३३ ॥