ऋग्वेद - मण्डल 8/ सूक्त 1/ मन्त्र 34
ऋषिः - शश्वत्याङ्गिरस्यासङ्गस्य पत्नी
देवता - आसंङ्गः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः । शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥
स्वर सहित पद पाठअनु॑ । अ॒स्य॒ । स्थू॒रम् । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒न॒स्थः । ऊ॒रुः । अ॒व॒ऽरम्ब॑माणः । शश्व॑ती । नारी॑ । अ॒भि॒ऽचक्ष्य॑ । आ॒ह॒ । सुऽभ॑द्रम् । अ॒र्य॒ । भोज॑नम् । बि॒भ॒र्षि॒ ॥
स्वर रहित मन्त्र
अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः । शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥
स्वर रहित पद पाठअनु । अस्य । स्थूरम् । ददृशे । पुरस्तात् । अनस्थः । ऊरुः । अवऽरम्बमाणः । शश्वती । नारी । अभिऽचक्ष्य । आह । सुऽभद्रम् । अर्य । भोजनम् । बिभर्षि ॥ ८.१.३४
ऋग्वेद - मण्डल » 8; सूक्त » 1; मन्त्र » 34
अष्टक » 5; अध्याय » 7; वर्ग » 16; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 16; मन्त्र » 4
विषयः - अस्यामवस्थायां हृदि निगूढा दैवी वाणी किं वक्तीति प्रदर्शयत्यनया ।
पदार्थः -
शश्वती=जीवात्मना सह सदा स्थायिनी । नारी=बुद्धिरूपा वाग्रूपा वा स्त्री । आत्मानं । परमात्माभिमुखीनम् । अभिचक्ष्य=अभि=अभितः परितो लक्षयित्वा=दृष्ट्वा । आह=ब्रवीति मनसि । हे अर्य्य=स्वामिन्=आत्मन् ! सुभद्रम्=परमेश्वराभिमुखनिगमनरूपं सुशोभनम् । भोजनम्=स्वपोषकं समाधिप्रभृतिकल्याणकरं भोजनम् । बिभर्षि=धारयसि । हे स्वामिन् ! अस्य तव । पुरस्तादग्रे । स्थूरम्=स्थूलम् । प्रवृद्धं=पुञ्जस्थं भोजनम् । अनुददृशे=अनुदृश्यते । कीदृशस्त्वम् । अनस्थः=अनिति= प्राणयति=जीवयति जगत् सोऽनः परमात्मा=अने परमात्मनि तिष्ठतीति अनस्थः । यद्वा तिष्ठतीति स्थः । न स्थः अस्थः । न अस्थः अनस्थः । स्थिर इति यावत् । समाधौ स्थिरः । पुनः ऊरुः=परमात्मबोधेन विस्तीर्णः । पुनः । अवरम्बमाणः=ईश्वरमभिलक्ष्य अधोमुखीनः । समाहितो हि अवाङ्मुखस्तिष्ठति ॥३४ ॥