Loading...
ऋग्वेद मण्डल - 8 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 10/ मन्त्र 3
    ऋषिः - प्रगाथः काण्वः देवता - अश्विनौ छन्दः - आर्चीबृहती स्वरः - मध्यमः

    त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता । ययो॒रस्ति॒ प्र ण॑: स॒ख्यं दे॒वेष्वध्याप्य॑म् ॥

    स्वर सहित पद पाठ

    त्या । नु । अ॒श्विना॑ । हु॒वे॒ । सु॒ऽदंस॑सा । गृ॒भे । कृ॒ता । ययोः॑ । अस्ति॑ । प्र । नः॒ । स॒ख्यम् । दे॒वेषु । अधि॑ । आप्य॑म् ॥


    स्वर रहित मन्त्र

    त्या न्व१श्विना हुवे सुदंससा गृभे कृता । ययोरस्ति प्र ण: सख्यं देवेष्वध्याप्यम् ॥

    स्वर रहित पद पाठ

    त्या । नु । अश्विना । हुवे । सुऽदंससा । गृभे । कृता । ययोः । अस्ति । प्र । नः । सख्यम् । देवेषु । अधि । आप्यम् ॥ ८.१०.३

    ऋग्वेद - मण्डल » 8; सूक्त » 10; मन्त्र » 3
    अष्टक » 5; अध्याय » 8; वर्ग » 34; मन्त्र » 3

    पदार्थः -
    सुदंससा=सुदंससौ=शोभनकर्माणौ=आश्चर्य्यकर्माणौ । दंस इति कर्मनाम । शोभनानि दंसांसि ययोस्तौ । पुनः । गृभे=प्रजानां क्लेशान् ग्रहीतुं दूरीकर्त्तुम् । कृता=कृतौ=नियुक्तौ । त्या=त्यौ=प्रसिद्धौ । अश्विना= मित्रभूतौ राजानौ । अद्याहमनु=प्रेम्णा । हुवे=आह्वयामि= निमन्त्रयामि । हे मनुष्याः ! ययोः=याभ्यां सह । नः=अस्माकम् । सख्यम्=मैत्रीम् । प्रास्ति=सम्यग् विद्यते । पुनः । ययोः सख्यम् । देवेषु+अधि=कार्य्यकुशलानां मध्ये । आप्यम्=प्रसिद्धमस्ति । ईदृशौ राजानौ सदानिमन्त्रयितव्यौ ॥३ ॥

    इस भाष्य को एडिट करें
    Top