ऋग्वेद - मण्डल 8/ सूक्त 10/ मन्त्र 2
यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् । बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥
स्वर सहित पद पाठयत् । वा॒ । य॒ज्ञम् । मन॑वे । स॒म्ऽमि॒मि॒क्षथुः॑ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् । बृह॒स्पति॑म् । विश्वा॑न् । दे॒वान् । अ॒हम् । हु॒वे॒ । इन्द्रा॒विष्णू॒ इति॑ । अ॒श्विनौ॑ । आ॒शु॒ऽहेष॑सा ॥
स्वर रहित मन्त्र
यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् । बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥
स्वर रहित पद पाठयत् । वा । यज्ञम् । मनवे । सम्ऽमिमिक्षथुः । एव । इत् । काण्वस्य । बोधतम् । बृहस्पतिम् । विश्वान् । देवान् । अहम् । हुवे । इन्द्राविष्णू इति । अश्विनौ । आशुऽहेषसा ॥ ८.१०.२
ऋग्वेद - मण्डल » 8; सूक्त » 10; मन्त्र » 2
अष्टक » 5; अध्याय » 8; वर्ग » 34; मन्त्र » 2
अष्टक » 5; अध्याय » 8; वर्ग » 34; मन्त्र » 2
विषयः - राजप्रजाकर्त्तव्यमाह ।
पदार्थः -
हे अश्विनौ=राजानौ । युवाम् । यद्वा । येन प्रकारेण । मनवे=मनोः मननकर्त्तुर्योगिनः । यज्ञम्=शुभकर्म । संमिमिक्षथुः=सम्यग् रक्षथः । एवेत्=एवमेव । काण्वस्य=तत्त्वविदो विदुषोऽपि । यज्ञम् । बोधतम्=जानीतम् । हे अश्विना । अद्याहम् । बृहस्पतिम्=बृहतां शास्त्राणां पतिं स्वामिनम्=महाशास्त्रिणम् । पुनः । विश्वान्=सर्वान् देवान्=व्यवहारज्ञान् पुरुषान् । अपि च । आशुहेषसा=हेषृ शब्दे । आशु=शीघ्रम् । हेषसौ=शब्द्यमानौ=तूयमानौ । इन्द्राविष्णू=इन्द्रः=सेनानायकः । विष्णुः=निपुणतरो राजदूतः । यो गुप्तमन्त्रविज्ञानाय सर्वत्र प्रविशति स विष्णुः । इन्द्रश्च विष्णुश्चेति इन्द्राविष्णू । हुवे=स्वयज्ञे निमन्त्रयामि= आह्वयामि । अतो हे अश्विनौ युवामवश्यमागच्छतम् ॥२ ॥