Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 12/ मन्त्र 1
    ऋषिः - पर्वतः काण्वः देवता - इन्द्र: छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    य इ॑न्द्र सोम॒पात॑मो॒ मद॑: शविष्ठ॒ चेत॑ति । येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥

    स्वर सहित पद पाठ

    यः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति । येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    य इन्द्र सोमपातमो मद: शविष्ठ चेतति । येना हंसि न्य१त्रिणं तमीमहे ॥

    स्वर रहित पद पाठ

    यः । इन्द्र । सोमऽपातमः । मदः । शविष्ठ । चेतति । येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥ ८.१२.१

    ऋग्वेद - मण्डल » 8; सूक्त » 12; मन्त्र » 1
    अष्टक » 6; अध्याय » 1; वर्ग » 1; मन्त्र » 1

    पदार्थः -
    हे इन्द्र=महादेव । हे शविष्ठ=अतिशयेन बलवत्तम । शव इति बलनाम । यस्तव । सोमपातमः=अतिशयेन सोमान्=पदार्थान् पाति=रक्षति । यद्वा । पिबति=कृपादृष्ट्या अवलोकयतीति सोमपातमः=अनुग्रहदृष्ट्या पदार्थद्रष्टा । मदः=हर्षः । चेतति= विजानाति सर्वं तत्त्वतो जानाति । येन सर्वज्ञात्रा मदेन । अत्रिणम्=अत्तारं जगद्भक्षकमुपद्रवम् । हंसि=शमयसि । तं मदम् । वयमीमहे=प्रार्थयामहे । क्वचिद् गुण एव गुणिवद् वर्ण्यते ॥१ ॥

    इस भाष्य को एडिट करें
    Top