Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 12/ मन्त्र 2
    ऋषिः - पर्वतः काण्वः देवता - इन्द्र: छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम् । येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥

    स्वर सहित पद पाठ

    येन॑ । दश॑ऽग्वम् । अध्रि॑ऽगुम् । वे॒पऽय॑न्तम् । स्वः॑ऽनरम् । येन॑ । स॒मु॒द्रम् । आवि॑थ । तम् । ई॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् । येना समुद्रमाविथा तमीमहे ॥

    स्वर रहित पद पाठ

    येन । दशऽग्वम् । अध्रिऽगुम् । वेपऽयन्तम् । स्वःऽनरम् । येन । समुद्रम् । आविथ । तम् । ईमहे ॥ ८.१२.२

    ऋग्वेद - मण्डल » 8; सूक्त » 12; मन्त्र » 2
    अष्टक » 6; अध्याय » 1; वर्ग » 1; मन्त्र » 2

    पदार्थः -
    हे इन्द्र ! येन=मदेन त्वम् । दशग्वम्=यो जीवो नवमासान् मातुरुदरे शयित्वा दशमे मासि निःसरति सः दशगूः । तं दशग्वम् । अध्रिगुम्=अधृतगमनमनिवारितगमनमनाहतगमनम् आत्मानम् । आविथ=रक्षसि । अपि च । वेपयन्तम्=स्वभासा सर्वं वस्तु कम्पयन्तम् । स्वर्णरम्=स्वः सुखस्य द्युलोकस्य वा नेतारं सूर्यम् । आविथ । अपि च । येन समुद्रमाविथ । कदापि समुद्रो मा शुषदिति यस्य संकल्पोऽस्ति । तम्=मदम् । ईमहे=प्रार्थयामहे ॥२ ॥

    इस भाष्य को एडिट करें
    Top