Loading...
ऋग्वेद मण्डल - 8 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 15
    ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्र: छन्दः - भुरिगार्षीबृहती स्वरः - मध्यमः

    पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एक॒: सन्न॒भि भूय॑सः । भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये॑ ॥

    स्वर सहित पद पाठ

    पृदा॑कुऽसानुः । य॒ज॒तः । गो॒ऽएष॑णः । एकः॑ । सन् । अ॒भि । भूय॑सः । भूर्णिम् । अश्व॑म् । न॒य॒त् । तु॒जा । पु॒रः । गृ॒भा । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    पृदाकुसानुर्यजतो गवेषण एक: सन्नभि भूयसः । भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥

    स्वर रहित पद पाठ

    पृदाकुऽसानुः । यजतः । गोऽएषणः । एकः । सन् । अभि । भूयसः । भूर्णिम् । अश्वम् । नयत् । तुजा । पुरः । गृभा । इन्द्रम् । सोमस्य । पीतये ॥ ८.१७.१५

    ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 15
    अष्टक » 6; अध्याय » 1; वर्ग » 24; मन्त्र » 5

    पदार्थः -
    य इन्द्रः पृदाकुसानुः=पृदाकुः=पूरयिता । सानुः=परमदाता च वर्तते । पुनः । यजतः=यजनीयः । पुनः । गवेषणः=गवादीनां पशूनां एषणः=एषयिता=प्रापयिता । पुनः । यः । एकः सन् । भूयसो बहून् सर्वान् विघ्नान् । अभि=अभिभवति । मनुष्यः । तमिन्द्रम् । सोमस्य पीतये । तुजा=क्षिप्रगामिना । गृभा=ग्रहणीयेन स्तोत्रेण । पुरः=स्वस्वाग्रे । नयत्=नयतु । कीदृशं भूर्णिम् । भरणकर्त्तारम् । पुनः । अश्वम्=सर्वत्र व्याप्तम् ॥१५ ॥

    इस भाष्य को एडिट करें
    Top