Loading...
ऋग्वेद मण्डल - 8 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 14
    ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्र: छन्दः - आसुरीबृहती स्वरः - मध्यमः

    वास्तो॑ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्याना॑म् । द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिन्द्रो॒ मुनी॑नां॒ सखा॑ ॥

    स्वर सहित पद पाठ

    वास्तोः॑ । प॒ते॒ । ध्रु॒वा । स्थूणा॑ । अंस॑त्रम् । सो॒म्याना॑म् । द्र॒प्सः । भे॒त्ता । पु॒राम् । शश्व॑तीनाम् । इन्द्रः॑ । मुनी॑नाम् । सखा॑ ॥


    स्वर रहित मन्त्र

    वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम् । द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा ॥

    स्वर रहित पद पाठ

    वास्तोः । पते । ध्रुवा । स्थूणा । अंसत्रम् । सोम्यानाम् । द्रप्सः । भेत्ता । पुराम् । शश्वतीनाम् । इन्द्रः । मुनीनाम् । सखा ॥ ८.१७.१४

    ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 14
    अष्टक » 6; अध्याय » 1; वर्ग » 24; मन्त्र » 4

    पदार्थः -
    अर्धर्चं प्रत्यक्षकृतम्, अर्धर्चञ्च परोक्षकृतम् । हे वास्तोष्पते ! अस्य निवासस्य जगतः पते=स्वामिन् । तव कृपया । स्थूणा=गृहाधारभूतः स्तम्भः । ध्रुवा=स्थिरा भवतु । तथा । सोम्यानाम्=द्रष्टव्यानाम्=प्राणिनाम् । अंसत्रम्=बलं भवतु । स्वयमिन्द्रश्च । द्रप्सः=सर्वेषां प्राणिनामुपरि द्रवीभूतो भवतु । पुनः । दुष्टानाम् । शश्वतीनां पुराणीनामपि । पुराम् । भेत्ता । पुनः । मुनीनां सखा भवतु ॥१४ ॥

    इस भाष्य को एडिट करें
    Top