Loading...
ऋग्वेद मण्डल - 8 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 4
    ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ । पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ॥

    स्वर सहित पद पाठ

    आ । नः॒ । या॒हि॒ । सु॒तऽव॑तः । अ॒स्माक॑म् । सु॒ऽस्तु॒तीः । उप॑ । पिब॑ । सु । शि॒प्रि॒न् । अन्ध॑सः ॥


    स्वर रहित मन्त्र

    आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप । पिबा सु शिप्रिन्नन्धसः ॥

    स्वर रहित पद पाठ

    आ । नः । याहि । सुतऽवतः । अस्माकम् । सुऽस्तुतीः । उप । पिब । सु । शिप्रिन् । अन्धसः ॥ ८.१७.४

    ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 4
    अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 4

    पदार्थः -
    हे इन्द्र ! सुतावतः=शोभनकर्मवतः । नोऽस्मान् । आयाहि । यतो वयं सर्वदा तवाज्ञामाश्रित्य शुभानि कर्माण्येव कुर्मः, अतस्त्वमस्मान् रक्षितुं द्रष्टुं च पितृवत् आगच्छ । ततः । अस्माकम् । सुष्टुतीः=शोभनाः स्तुतीः=प्रार्थनामन्त्रान् । उपेत्य । शृणु इति शेषः । हे सुशिप्रिन् । सु=सुपूजितान् शिष्टान् जनान् पृणाति प्रसादयतीति सुशिप्री । सम्बोधने हे सुशिप्रिन्=शिष्टरक्षक दुष्टविनाशक महादेव । अस्माकमन्धसोऽन्नानि । पिब=कृपया पश्य ॥४ ॥

    इस भाष्य को एडिट करें
    Top